________________
२०८
श्लोक २८
अन्ययोगव्यवच्छेदिका णम् । तथाहि -दुर्नयस्तावत्सदेव इति ब्रवीति--'अस्त्येव घटः' इति, अयं वस्तुनि एकान्तास्तित्वमेव अभ्युपगच्छन् इतरधर्माणां तिरस्कारेण स्वाभिप्रेतमेव धर्म व्यवस्थापयति, दुर्नयत्वं चास्य मिथ्यारूपत्वात्, मिथ्यारूपत्वं च तत्र धर्मान्तराणां सतामपि निह्नवात् ।
तथा 'सद्' इति उल्लेखनात् नयः, स हि 'अस्ति घटः' इति घटे स्वाभिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मेषु गजनिमीलिका
१ 'अपलापस्तु निह्नवः' इति अभिधानचिन्तामणौ द्वितीयकाण्डे १९० श्लोकः । निह्नवाः सप्त-१ बहुरताः २ जीवप्रादेशिकाः ३ व्यक्तिकाः ४ सामुच्छेदिकाः ५ क्रियाः ६ त्रैराशिकाः ७ अबध्दिकाः ।। १ एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बपु समयेषु रताः सक्ता बहुरताः दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । ते च श्रीवारकेवलात् १४ वर्जमालिप्रभृतयः श्रावस्तीनगरे समुत्पन्नाः। २ जीवः प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः। अथवा--जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते, तथा चरमप्रदेशजीवप्ररूपिण इति हृदयम् । ते च श्रीवीरकेवलात् १६ वर्षैस्तिष्यगुप्तप्रभृतयः ऋषभपुरे समुत्पन्नाः । ३ अव्यक्तमस्फुटं वस्तु अभ्युपगमतो विद्यते येषां ते अव्यक्तिकाः, संयंताद्यवगमे सन्दिग्धबुद्धय इति भावना । अव्यक्तवादी । ते श्रीवीरनिर्वाणात् २१४ वराषाढप्रभृतयः श्वेतविकानगरे समुत्पन्नाः ४ समुच्छेदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो विनाशः समुच्छेद ब्रुवत इति सामुच्छेदिकाः क्षणक्षयिकभावप्ररूपकाः-शून्यवादीत्यर्थः । ते श्रीवीरनिर्वाणात् २२० वर्षेः अश्वमित्रादयः मिथिलानगयो समुत्पन्नाः। ५ द्वे क्रिये समुदिते द्विक्रियं, तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिणः-एकस्मिन् समये द्विक्रियावेदकाः । ते श्रीवीरनिर्वाणात् २२८ वर्षेः गङ्गादयः उल्लुकातीरे समुत्पन्नाः। ६ जीवाजीवनोजीवभेदात् त्रयो राशयः समादृताः त्रिराशिः, तत्प्रयोजनं येषां ते त्रैराशिकाः-राशित्रयाख्यापकाः नोजीवस्थापका इत्यर्थः। ते श्रीवीरनिर्वाणात् ५४४ वर्षेः रोहगुप्तप्रभृतयः पुरमन्तरंजिकायां समुत्पन्नाः । ७ स्पृष्टं जीवेन कर्म न स्कन्धबन्धबद्धद्रुमबद्धं, तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम् । ते श्रीवीरनिर्वाणात् ५.८४ वर्षेः गोष्टामाहिलाः दशपुरे समुत्पन्नाः। २ गजनिमीलका ( १५३ ) पृष्ठे द्रष्टव्या ।