________________
२०९ स्याद्वादमञ्जरीसहिता
श्लोक २८. मालम्बते । न चास्य दुर्नयत्वं धर्मान्तरातिरस्कारात्, न च प्रमाणत्वं स्याच्छब्देन अलाञ्छितत्वात् ।
स्यात्सदिति-'स्यात्कथञ्चित्, सद् वस्तु', इति प्रमाणम् । प्रमाणत्वं चास्य दृष्टेष्टाबाधितत्वाद् विपक्षे बाधकसद्भावाच्च । सर्व हि वस्तु स्वरूपेण सत् , पररूपेण चासद् इति असकृदुक्तम् । सदिति दिङ्मात्रदर्शनार्थम्, अनया दिशा असत्त्व-नित्यत्वा-नित्यत्ववक्तव्यत्वा-वक्तव्यत्व-सामान्य-विशेषादि अपि बोद्धव्यम् ।
इत्थं वस्तुस्वरूपमाख्याय स्तुतिमाह-यथार्थदर्शी इत्यादि । दुर्नीतिपथं दुर्नयमार्गम्, तुशब्दस्य अवधारणार्थस्य भिन्नक्रमत्वात् त्वमेव आस्थः त्वमेव निराकृतवान्, न तीर्थान्तरदैवतानि । केन कृत्वा, नय-प्रमाणपथेन, नय-प्रमाणे उक्तस्वरूपे तयोर्मार्गेण प्रचारेण । यतस्त्वं यथार्थदशी-यथार्थोऽस्ति तथैव पश्यतीत्येवंशीलो यथार्थदर्शी विमलकेवलज्योतिषा यथावस्थितवस्तुदर्शी, तीर्थान्तरशास्तारस्तु रागादिदोषकालुष्यकलङ्कितत्वेन यथाविधज्ञानाभावाद् न यथार्थदर्शिनः, ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विनः। न हि स्वयमनयप्रवृत्तः परेषामनयं निषेदुमुद्धरतां धत्ते । इदमुक्तं भवति-यथा कश्चित् सन्मार्गवेदी परोपकारदुर्ललितः पुरुषश्चौरश्वापद-कण्टकाद्याकीर्ण मार्ग परित्याज्य पथिकानां गुणदोषोभयविकलं दोषास्पृष्टं गुणयुक्तं च मार्गमुपदर्शयति, एवं जगन्नाथोऽपि दुर्नयतिरस्करणेन भव्येभ्यो नयप्रमाणमार्ग प्ररूपयतीति । आस्थः
१ लांच्छितं-चिह्नितम् । २ तपस्विनः-वराकाः । ३ उद्भुरता-प्रागल्भ्यम् । ४ भवति परमपदयोग्यतामासादयतीति भव्यः सिद्धिगमनयोग्यः ।