________________
श्लोक २८
इति अस्यतेरयैतन्या “शास्त्येसूवक्तिख्यातेरङ” इत्यङि " श्वयत्यस्वचपतः श्वास्थवोचपप्तम्" इति अस्थादेशे " स्वरादेस्ताँसु” इति वृद्धौ रूपम् ।
मुख्यवृत्त्या च प्रमाणस्यैव प्रामाण्यम् । यच्च अत्र नयानां प्रमाणतुल्यकक्षताख्यापनं तत् तेषामनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वज्ञापनार्थम् । चत्वारि हि प्रवचनायोगमहानगरस्य द्वाराणि - उपक्रमः, निक्षेपः, अनुगमः, नयचेति एतेषां च स्वरूपमावश्यकभष्यादेर्निरूपणीयम्, इह तु नोच्यते ग्रन्थगौरवभयात् । अत्र चैकत्र कृतसमासान्तः पथिन्शब्दः, अन्यत्र चाव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दस्य द्विः प्रयोगो न दुष्यति ।
अथ दुर्नय-नय-प्रमाणस्वरूपं किश्चिन्निरूप्यते तत्रापि प्रथमं नयस्वरूपं तदनधिगमे दुर्नयस्वरूपस्य दुष्परिज्ञानत्वात् । अत्र च आचार्येण प्रथमं दुर्नयनिर्देशो यथोत्तरं प्राधान्यावबोधनार्थः कृतः । तत्र प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः - अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनकोटिमारोहयति इति नयः - प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः ।
अन्ययोगव्यवच्छेदिका
१ हैमधातुपारायणे दिवादिगणे ७८ धातुः ।
२ अद्यतनीति हैमव्याकरणे ललकारस्य संज्ञा ।
३ हैमसूत्रं ३|४|६०
४ हैमसूत्रं ४ | ३ | १०३
२१०
५ हैमसूत्रम् ४।४।३१
६ विशेषावश्यकभाष्य गाथा ९११।९१२।९१३ ।९१४ तथा गाथा १५०५ तः परम्। (चतुर्षु मूलसूत्रेष्विदं प्रथममावश्यक सूत्रं - तन्मूलसंख्या १२५ तत्राध्ययनषटुंतत्र प्रथमाध्ययनं सामायिकाख्यं तद्भाष्यं विशेषावश्यकभाष्यं श्रीजिनभद्रगणिक्षमाश्रमण कृतं श्लोकसंख्या ५००० तत्र मलधारिश्रीहेमचन्द्रसूरिकृता बृहद्वृत्तिः । ग्रन्थसंख्या १८००० तत्र वृत्तौ जैनस्थापनाचार्यकृता टीका । तथा भाष्योपरि द्रोणाचार्यकृता लघुवृत्तिः । ग्रन्थसंख्या १४००० )
७ ' अवसेयम्' इति क . पुस्तके पाठः ।