________________
२११ स्याद्वादमञ्जरीसहिता
श्लोक २८ नयाथानन्ता अनन्तधर्मत्वात् वस्तुनः, तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् । तथा च वृद्धाः "जावईआ वयणपहा तावइआ चेव हुँति नयवाया" इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः। तद्यथा-नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूद्वैवंभूता इति । कथमेषां सर्वसंग्राहकत्वमिति चेत्, उच्यते अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराभावात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽपि आये नयचतुष्टयेऽन्तर्भवन्ति । ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति । ___तत्र नैगमः सत्तालक्षणं महासामान्यम्, अवान्तरसामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्वादीनि । तथान्त्यान् विशेषान् सकलासाधारणरूपलक्षणान्, 'अवान्तरविशेषांश्चापेक्षया पररूपव्यावर्तनक्षमान् सामान्यात् अत्यन्तविनि ठितस्वरूपानभिप्रैति । इदं च स्वतन्त्रसामान्यविशेषवादे क्षुण्णमिति न पृथक्प्रयत्नः। प्रवचनप्रसिद्धनिलयनप्रस्थदृष्टान्तद्वयगम्यश्चायम् ।
संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वमुपादत्ते । एतच्च सामान्यैकान्तवादे प्रोक् प्रपश्चितम् ।
व्यवहारस्त्वेवमाह-यथा लोकग्राहमेव वस्तु अस्तु, किमनया अदृष्टाव्यवन्हियमाणवस्तुपरिकल्पनकष्टपिष्टिकया, यदेव च लोकव्यवहारपथमवतरति तस्यैवानुग्राहकं प्रमाणमुपलभ्यते । नेतरस्य ।
१ यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । इति छाया । २ चतुर्थश्लोकः । ३ 'जल्पितम्' इति क. पुस्तके पाठः । ४ अनुयोगद्वारसूत्र १४५ व्याख्या श्रीमलयागरिकता पृ. २२३ । २२५ ५ चतुर्थपञ्चमश्लोकयोः । ६ लोके यथा प्रसिद्धं तथा ।