________________
श्लोक २८
अन्ययोगव्यवच्छेदिका
२१२
न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमाणभूमिः, तथानुभवाभावात् , सर्वस्य सर्वदर्शित्वप्रसङ्गाच्च । नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचराः, तथा प्रवृत्तेरभावात् । तस्माद इदमेव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूलतामाविभ्राणमुदकाद्याहरणाद्यर्थक्रियानिवर्तनक्षमं घटादिकं वस्तुरूपं पारमार्थिकम् । पूर्वोत्तरकालभावितपर्यायपालोचना पुनरज्यायसी। तत्र प्रमाणप्रसराभावात् । प्रमाणमन्तरेण विचारस्य कर्तुमशक्यत्वात् । अवस्तुत्वाच्च तेषां किं तद्गोचरपर्यालोचनेन, तथाहि पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः, क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कथंचन लोकव्यवहारमुपरचयन्ति । तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात्, अत एव 'पन्था गच्छति, कुण्डिका स्रवति, गिरिदह्यते, मञ्चाः क्रोशन्ति' इत्यादिव्यवहाराणां प्रामाण्यम् । तथा च वाचकमुख्यः-"लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः” इति ।
ऋजुसूत्रः पुनरिदं मन्यते-वर्तमानक्षणविवत्यैव वस्तुरूपम् , नातीतमनागतं च । अतीतस्य विनष्टत्वाद् , अनागतस्यालब्धात्मलाभत्वात् खरविषाणादिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वात् नार्थक्रियानिवर्तनक्षमत्वम् , तदभावाच न वस्तुत्वं “यदवार्थक्रियाकारि तदेव परमार्थसत्" इति वचनात् । वर्तमानक्षणालिङ्गितं पुनर्वस्तुरूपं समस्ताक्रियासु व्याप्रियत इति तदेव पारमा र्थिकम् । तदापे च निरंशमभ्युपगन्तव्यम् । अंशव्याप्तेयुक्तिरिक्तत्वात् । एकस्य अनेकस्वभावतामन्तरेण अनेकस्यावयवव्यापनायोगात् । अनेकस्वभावता एवास्तु इति चेत् । न, विरोधव्याघ्राघ्रातत्वात् ।
१ अश्रेयसी। २ उमास्वातिः। तत्त्वार्थाधिगमसूत्र १।३५ भाष्ये ।