________________
२१३ . स्याद्वादमञ्जरीसहिता
श्लोक २८ तथाहि-यदि एकः स्वभावः कथमनेकः, अनेकश्चेत्कथमेकः, एकानेकयोः परस्परपरिहारेणावस्थानात् । तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंनिचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणं, न स्थूलतां धारयत् पारमार्थिकमिति । एवमस्याभिप्रायेण यदेव स्वकीयं तदेव वस्तु, न परकीयम् , अनुपयोगित्वादिति। ___ शब्दस्तु-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते । यथा इन्द्र-शक्रपुरन्दरादयः सुरपतौ, तेषां सर्वेषामष्येकमर्थमभिप्रति किल प्रतीतिवशाद् । यथा शब्दाव्यतिरेकोऽर्थस्य प्रतिपाद्यते, तथैव तस्यैकत्वमनेकत्वं वा प्रतिपादनीयम् । न च इन्द्र-शक्र-पुरन्दरादयः पर्यायशब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते । तेभ्यः सर्वदा एकाकारपरामर्शोत्पत्तेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् । तस्माद् एक एव पर्यायशब्दानामर्थ इति । शब्द्यते आहूयतेऽनेनाभिप्रायेणार्थः, इति निरुक्तात् एकार्थप्रतिपादनाभिप्रायेणैव पर्यायध्वनीनां प्रयोगात् । यथा चायं पर्यायशब्दानामेकमर्थमभिप्रैति तथा 'तटस्तटी तटम्' इति विरुद्धलिङ्गलक्षणधर्माभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि विरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्मायोगो युक्तः । एवं सङ्ख्याकाल-कारक-पुरुषादिभेदाद् अपि भेदोऽभ्युपगन्तव्यः। तत्र सङ्ख्या एकत्वादिः, कालोऽतीतादिः, कारक कादि, पुरुषः प्रथमपुरुषादिः।
समभिरूढस्तु-पर्यायशब्दानां प्रविभक्तमेवार्थमभिमन्यते । तद्यथा-इन्दनात् इन्द्रः, परमैश्वर्यम्-इन्द्रशब्दवाच्यं परमार्थतस्तदत्यर्थे, अतद्वत्यर्थे पुनरुपचारतो वर्तते, न वा कश्चित् तद्वान् । सर्वशब्दानां परस्परविभक्तार्थप्रतिपादितया आश्रयाश्रयिभावेन प्रवृत्त्यसिद्धः। एवं शकनात् शक्रः पूर्दारणात् पुरन्दर इत्यादि भिन्नार्थत्वं