________________
लोक २८ अन्ययोगव्यवच्छेदिका
२१४ सर्वशब्दानां दर्शयति, प्रमाणयति च-पर्यायशब्दा आप भिन्नार्थाः, प्रविभक्तव्युत्पत्तिनिमित्तकत्वात्, इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थकाः, यथा इन्द्र-पशु-पुरुषशब्दाः, विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अप, अतो भिन्नार्था इति ।
___ एवंभूतः पुनरेवं भाषते-यास्मिन् अर्थे, शब्दो व्युत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव प्रवर्तते तदैव तं शब्दं प्रवर्तमानमभिप्रैति, न सामान्येन । यथा उदकाद्याहरणवेलायां योपिदादिमस्तकारूढो विशिष्टचेष्टावान् एव घटोऽभिधीयते, न शेषः घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात्, पटादिवद् इति । अतीतां भाविनी वा चेष्टामङ्गीकृत्य सामान्येनैवोच्यत इति चेत् । न, तयोर्विनष्टानुत्पन्नतया शशविषाणकल्पत्वात्, तथापि तवारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यः, विशेषाभावात् । किंच याद अतीत-वय॑च्चेटापेक्षया घटशब्दोऽचेष्टावत्यापि प्रयुज्येत तदा कपालमृत्पिण्डादावपि तत्पवर्तनं दुर्निवारं स्याद्, विशेषाभावात् । तस्माद यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन् एव सोऽर्थस्तच्छन्दवाच्य इति ।
अत्र संग्रहश्लोकाः“अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमी नयः ।। १ ।। सद्रूपतानतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संग्रहन् संग्रहो मतः ॥ २॥" व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । • तथैव दृश्यमानत्वाद् व्यापारयति देहिनः।।३॥ तत्रर्जुसूत्रनीतिः स्याद् शुद्धपर्यायसंश्रिता ।
नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः ॥४॥ १ 'चेष्टावत्यपि प्रयुज्यते' इति क, पुस्तके पाठः । २ 'व्यवस्थितिम्' इति क. ख. रा. पुस्तके पाठः ।