________________
स्थाद्वादमञ्जरीसहिता
श्लोक ११ न च श्रौतेन विधिना पशुविशसनविधायिनां स्वर्गावाप्तिरुपकार इति वाच्यम् । यदि हि हिंसयाऽपि स्वर्गप्राप्तिः स्यात्, तर्हि बाढं पिहिता नरकपुरमतोल्यः। सौनिकादीनामपि स्वर्गप्राप्तिप्रसङ्गात् । तथा च पठन्ति परमौर्षाः_ "यूपं छित्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । .. यद्येवं गम्यते स्वर्गे नरके केन गम्यते ?" ॥१॥ ... किञ्च, अपरिचितास्पष्टचैतन्यानुपकारिपशुहिंसनेनापि यदि त्रिदिवपदवीप्राप्तिः, तदा परिचितस्पष्टचैतन्यपरमोपकारिमातापित्रादिव्यापादनेन यज्ञकारिणामधिकतरपदप्राप्तिः प्रसज्यते। अथ 'अचिन्त्यो हि माणिमन्त्रौषधीनां प्रभावः' इति वचनाद् वैदिकमन्त्राणामचिन्त्यप्रभावत्वात् तत्संस्कृतपशुवधे संभवत्येव स्वर्गप्राप्तिः, इति चेत् । न । इह लोके विवाहगर्भाधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलम्भाद्-अदृष्टे स्वर्गादावपि तद्व्यभिचारोऽनुमीयते । दृश्यन्ते हि वेदोक्तमन्त्रसंस्कारविशिष्टेभ्योऽपि विवाहादिभ्योऽनन्तरं वैधव्याल्पायुष्कतादारियाद्युपद्रवविधुराः परःशताः । अपरे च मन्त्रसंस्कारं विना कृतेभ्योऽपि तेभ्योऽनन्तरं तद्विपरीताः । अथ तत्र क्रियावैगुण्यं विसंवादहेतुः, इति चेत् । न । संशयानिवृत्तेः । किं तत्र क्रियावैगुण्यात् फले विसंवादः, किंवा मन्त्राणामसामर्थ्याद् ? इति न निश्चयः । तेषां फलेनाविनाभावासिद्धेः।। __अथ यथा युष्मन्मते “आरुंग्ग बोहिलाभं समाहिवरमुत्तमं दिंतु" इत्यादीनां वाक्यानां लोकान्तर एव फलमिष्यते, एवमस्मदभिमतवेदवाक्यानामपि नेह जन्मनि फलमिति किं न प्रति१ प्रतोल्यः-मार्गाः। २ 'पारमर्षाः ' इति क, ख. ह. पुस्तकेषु पाठः।
३ आवश्यकसूत्रचतुर्विंशतिस्तवाध्ययनमूलसूत्रगाथा ६ । छाया-आरोग्य बोधिलाभं समाधिवरमुत्तमं ददतु ।
.