________________
श्लोक ११
अन्ययोगव्यवच्छेदिका
तव्विसया वि सुदिहिस्स णियमओ अत्थि अणुकंपा ॥१॥
एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई। इत्तो निव्वाणगया अबाहिया आभवमिमाणं॥२॥
रोगिसिरावेहो इव सुविजकिरिया व सुपउत्ताओ। परिणामसुंदरच्चिय चिट्ठा से बाहजोगे वि" ॥३॥ इति ।
वैदिकवधविधाने तु न कश्चित्पुण्यार्जनानुगुणं. गुणं पश्यामः । अथ विप्रेभ्यः पुरोडाशादिप्रदानेन पुण्यानुबन्धी गुणोऽस्त्येव इति चेत् । न । पवित्रसुवर्णादिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कृपणपशुगणव्यपरोपणसमुत्थं मांसदानं केवलं निघृणत्वमेव व्यनक्ति । अथ न प्रदानमात्रं पशुवधक्रियायाः फलं, किन्तु भूत्यांदिकम् । यदाह श्रुतिः-'श्वेतं वायव्यमजमालभेत भूतिकामः' इत्यादि । एतदपि व्यभिचारपिशाचग्रस्तत्वादप्रमाणमेव । भूतैश्चौपयिकान्तरैरपि साध्यत्वात् । अथ तत्र सत्रे हन्यमानानां छागादीनां प्रेत्य सद्गतिप्राप्तिरूपोऽस्त्येवोपकार इति चेत् । वाङ्मात्रमेतत् । प्रमाणाभावात् । न हि ते निहताः पशवः सद्गतिलाभमुदितमनसः कस्मैचिदागत्य तथाभूतमात्मानं कथयन्ति। अथास्त्यागमाख्यं प्रमाणम्। यथा
" औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्रामुवन्त्युच्छ्रितं पुनः" ॥१॥ इत्यादि।
नैवम् । तस्य पौरुषेयापौरुषेयविकल्पाभ्यां निराकरिष्यमाणत्वात् ।
१ 'पुण्यानुगुणम्' इति घ. पुस्तके पाठः। २ पुरो दाश्यते इति पुरोडाशो हुतद्रव्यावशिष्टम् । ३ पुण्यावहः। ४ 'साध्यमानत्वात्' इति ध. ह. रा. पुस्तकेषु पाठः । .. ५ हमेचन्द्रकृतयोगशास्त्रे परिगृहीतः श्लोकः।