________________
श्लोक ११
७९
तथाहि तद्दर्शनाद् गुणानुरागितया भैन्यानां बोधिलाभ:, पूजातिशयविलोकनादिना च मनःप्रसादः, ततः समाधिः, ततश्च क्रमेण निःश्रेयसप्राप्तिरिति । तथा च भगवान् पञ्चलिङ्गीकारःपुढवाइयाण जइवि हु होइ विणासो जिणालयाहिन्तो ।
स्याद्वादमञ्जरीसहिता
१ सिद्धिगमनयोग्यानाम् ।
२ बोधनं बोधिः समक्त्वं प्रेत्याजिनधर्मावातिर्वा ।
३ सम्यग्दर्शनादिका मोक्षपद्धतिः ।
४ श्रीजिनपतिसूरिः ।
५ छाया - पृथिव्यादीनां यद्यपि भवत्येव विनाशो जिनालयादिभ्यः तद्विषयापि सुदृष्टेर्नियमतोऽस्त्यनुकम्पा ॥ १ ॥ एताभ्यो बुद्धा विरता रक्षन्ति येन पृथिव्यादीन् । अतो निर्वाणगता अबाधिता आमवमेषाम् || २ || रोगिशिरावेध इव सुवैद्यक्रिया इव सुप्रयुक्ता तु । परिणामसुन्दर इव चेष्टा सा बाधायोगेऽपि ॥ ३ ॥ इमा गाथा जिनपतिमुरिकृतपञ्चलिङ्गीग्रन्थे ५८ । ५९ । ६० । इत्यत्र लभ्यन्ते । अत्र टीका-ननु महानयं जिनगृहाद्यारम्भस्तत्र चावश्यंभावी पृथिव्याद्युपमर्दस्तथा चानुकम्पयाऽभाव इत्याशङक्य तान् समर्पयितुमाह--पृथ्व्यम्बुतेजोवायुवनस्पतित्रसलक्षणानां षट्जीवनिकायानां यद्यपि बहुरवधारणं भवत्येव जायेतैव विनाशो विध्वंसः । भूखननेष्टकापाकजलसेकादेरवश्यं तत्र भवान् जिनालयान् अर्हद्भवनादिनिर्मापणात् तथापि तद्विषयापि बिनश्यत् पृथ्व्यादिगोचरा अपि सुदृष्टेः सम्यग्दृशस्तु निर्धापयतु नियमान्निश्चयेनास्तु व इंति अनुकंपारक्षणाभिप्राय इति गाथार्थ: ५८ अथ तादृशं जीवोपमर्द प्रत्यक्षेण पश्यन् कथं तस्यानुकम्पां प्रतीमेत्यत आह-- एतस्माद् जिनवसत्यादिदर्शनाद् बुद्धास्तत्त्वज्ञानेन प्राप्तसम्यक्त्वाविरता चारित्राचारकर्मक्षयोपशमेन प्रतिपन्नचारित्राः सन्तो रक्षन्ति न हिंसन्ति येन यस्मात्कारणात् पृथिव्यादीन् जन्तून् । ततः किमित्याह-इतोऽस्मात् पृथिव्यादिरक्षणरूपचारित्रान्निर्वाणगता मुक्तिं प्राप्ताः सन्तोऽबाधका रक्षका भवन्तीति शेषः । आभवमासंसारं इमानन्ति - एषां जिनालयाद्युपयुज्यमानानामन्येषां च पृथिव्यादीनां इति कथं तत्त्वतो जिनालयादिकारयितुस्तेष्वनुकम्पा नास्तीति गाथार्थः । ५९ ।
एतदेव दृष्टान्तद्वयोपदर्शनेन द्रढयन्नाह - - रोगेण रक्तविकारादिना व्याधितस्य शिरोवेध इव रुधिराकर्षणाय शास्त्रेण नाडीव्यध इव वस्तुवैद्यकिये च वा प्रधानवैद्यचिकित्से वस्तुप्रयुक्ता निर्व्याजं प्रयुक्ता । वा सुमुच्चये । परिणामसुन्दर एवागामिनि काले सुखावह एव चेष्टा जिनालयादिनिर्माणारम्भक्रिया भवतीति शेषः । से इति । तस्य सम्यग्दृष्टेर्बाधायोगेऽपि आपाततो रोगिणः पीडासद्भावेऽपि देवगृहादौ तु पृथिव्याद्युपमर्द संभवेऽपि । इति गाथार्थः ॥ ६० ॥