________________
___ ७८
श्लोक ११
अन्ययोगव्यवच्छेदिका तस्य संबद्धवर्तमानार्थग्राहकत्वात्-" सम्बन्धं वर्तमानं च गृह्यते चक्षुरादिना।" इति वचनात् । नाप्यनुमानम्-तत्प्रतिबद्धलिङ्गानुपलब्धः। नाप्यागमः-तस्याद्यापि विवादास्पदत्वात् । अर्थापत्त्युमानयोस्त्वनुमानान्तर्गततया तदृषणेनैव गतार्थत्वम् । .
अथ भवतामपि जिनायतनादिविधाने परिणामविशेषात पृथिव्यादिजन्तुजातघातनमाप यथा पुण्याय कल्प्यते इति कल्पना । तथा अस्माकमपि किं नेष्यते । वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निर्विकल्पं तत्रापि भावात् । नैवम् । परिणामविशेषोऽपि स एव शुभफलो, यत्रानन्योपायत्वेन यतनयाऽप्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधेऽपि. स्वल्पपुण्यव्ययेनापरिमितसुकृतसंप्राप्तिः, न पुनरितरः । भवत्पक्षे तु सत्स्वपि तत्तच्छ्रतिस्मृतिपुराणेतिहासप्रतिपादितेषु यमनियमादिषु स्वर्गावाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रातिप्रैकिं कर्तनकदर्थनया कान्दिशीकान् कृपणपञ्चेद्रियान सौनकाधिकं मारयतां कृत्स्नसुकृतव्ययेन दुर्गतिमेवानुकूलयतां दुर्लभः शुभपरिणामविशेषः। एवं च यं कञ्चन पदार्थ किञ्चित्साधर्म्यद्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते। .. __ न च जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणः ।
१ मीमांसाश्लोकवार्तिके सू. ४ श्लो. ८४ । २ 'गतार्थत्वात् ' इति ह. रा. पुस्तकयोः पाठः । ३वेदोक्तविधान ' इति ह. पुस्तके पाठः । ४ प्रतीकः-अवयवः। ५ कान्दिशीकः-भयद्रुतः । ६ सौनकः-हिंसाजीवी । ७ ' साधर्म्यमात्रेणैव ' । इति क. पुस्तके पाठः । . ८ ' जिनभवन ' इति क. पुस्तके पाठः ।