________________
स्याद्वादमञ्जरीसहिता
श्लोक ११
अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः, किन्तु विशिष्टामेव । विशिष्टा च सैव - या वेदविहिता इति चेत्--ननु तस्या धर्महे तुत्वं किं वध्यजीवानां मरणाभावेन, मरणेऽपि तेषामार्तध्यानाभावात् सुगतिलाभेन वा ? | नाद्यः पक्षः - प्राणत्यागस्य तेषां साक्षादवेक्ष्यमाणत्वात् । न द्वितीयः – परचेतोवृत्तीनां दुर्लक्षतयार्तध्यानाभावस्य वाङ्मात्रत्वात् । प्रत्युत हा ! कष्टमस्ति ने कोऽपि कारुणिकः शरणम् इति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलतादीनां लिङ्गानां दर्शनाद दुर्ध्यानस्य स्पष्टमेव निष्टङ्कयमानत्वात् ।
७७
अथेत्थमाचक्षीथाः – यथा अयःपिण्डो गुरुतया मज्जनात्मकोऽपि तनुतरपत्रादिकरणेन संस्कृतः सन् जलोपरि प्लवते, यथा च मारणात्मकमपि विषं मन्त्रादिसंस्काररावशिष्टं सद्गुणाय जायते, यथा वा दहनस्वभावोऽप्यभिः सत्यादिप्रभावप्रतिहतशक्तिः सन् नहिी दहति । एवं मन्त्रादिविधिसंस्काराद् न खलु वेदविहिता हिंसा दोषपोषय । न च तस्याः कुत्सितत्वं शङ्कनीयम् । तत्कारिणां याज्ञिकानां लोके पूज्यत्वदर्शनादिति । तदेतद् न दक्षाणां क्षमते क्षोदम् । वैधर्म्येणे दृष्टान्तानामसाधकतमत्वात् । अयःपिण्डादयो हि पत्रादिभावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः, न च वैदिकमन्त्रसंस्कारविधिनापि विशस्यमानानां पशूनां काचिद् वेदनानुत्पादादिरूपा भावान्तरापत्तिः प्रतीयते । अथ तेषां वधानन्तरं देवत्वापत्तिर्भावान्तरमंस्त्येवेति चेत् — किमत्र प्रमाणम् ? । न तावत् प्रत्यक्षम् -
6
१. नः' इति घ. क. ख. पुस्तकेषु पाठः ।
२ ' लिङ्गानाम् ' इति घ. पुस्तके नास्ति ।
C
,
३ यथाच इत्यारभ्य ' जायते ' इत्यन्तं रा. पुस्तके नास्ति ।
४ दोषाणां पोषणायेत्यर्थः ।
५
' वैषम्येण ' इति घ. रा. ह. पुस्तकेषु पाठः ।
६ ' वेदनानुदयादि ' इति क पुस्तके पाठ: ।
--