________________
श्लोक ११
अन्ययोगव्यवच्छेदिका पितृणामाप तत्तदुपयाचित्तश्रद्धादिविधानेन प्रीणितात्मनां स्वसन्तानद्धिविधानं साक्षादेवं वीक्ष्यते । आगमश्चात्र प्रमाणम्। स च देवप्रीत्यर्थमश्वमेधगोमेधनरमेधादिविधानाभिधायकः प्रतीत एव । अतिथिविषयस्तु-" महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ॥” इत्यादिः । पितृप्रीत्यर्थस्तु-" द्वौ मांसौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरभ्रणाथ चतुरः शाकुनेनेह पञ्च तु" ॥१॥ इत्यादिः।
एवं पराभिप्राय हाद संप्रधाचार्यः प्रतिविधत्ते-न धर्मेत्यादि। विहितापि-वेदप्रतिपादितापि; आस्तां तावदविहिता । हिंसा-प्राणिप्राणव्यपरोपणरूपा । न धर्महेतुः-न धर्मानुबन्धानबन्धनम् । यतोऽत्र प्रकट एव स्ववचनविरोधः । तथाहि-'हिंसा चेद-धर्महेतुः कथम् ? 'धर्महेतुश्चेद् हिंसा कथम्' ? " श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्" इत्यादिः। न हि भवति माता च, वन्ध्या चेति । हिंसा कारणं, धर्मस्तु तत्कार्यमिति परोभिप्रायः; न चायं निरंपायः। यतो यद् यस्यान्वयव्यतिरेकावनुविधत्तें तत् तस्य कार्यम्; यथा मृत्पिण्डादेर्घटादिः । न च धर्मो हिंसात एव भवतीति प्रातीतिकम्। तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात् ।
१ याज्ञवल्क्यस्मृतिः--आचाराध्यायः श्लो. १०९।
२ मनुस्मृतिः अ. ३ श्लो. २६८ तदने--' षण्मासांश्छागमांसेन पार्षतेन हि सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु । २६९ । दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मस्य मांसेन मासानेकादशैव तु । २७० । संवत्सरं तु गव्येन पयसा पायसेन वा । वार्षीणस्य मांसेन तृप्तिादशवार्षिकी ।। २७१ ॥'
३ 'प्रकटतः ' इति क. पुस्तके पाठः।
४ · श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवोपधारयेत् ' । इति चाणक्यराजनीतिशास्त्रे अ. १ श्लो. ७ । ५ वादिनोऽभिप्रायः । ६ निरपायः-निर्बाधः।