SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरीसहिता न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघाताद् नृपतित्वलिप्सा सब्रह्मचारी स्फुरितं परेषाम् ॥ ११ ॥ इह खल्वचिंमर्गप्रतिपक्षधूमंमार्गाश्रिता जैमिनीया इत्थमाचक्षते - या हिंसा गाद, व्यसनितया वा क्रियते; सैवाधर्मानुबन्धहेतुः। प्रमादसंपादितत्वात् । सौनिकलुब्धंकादीनामिव । वेदविहिता तु हिंसा - प्रत्युत धर्महेतुः। देवतातिथिपितॄणां प्रीतिसंपादकत्वात्, तथाविधपूजोपचारवत् । न च तत्प्रीतिसंपादकत्वमसिद्धम् काँरीरीप्रभृतियज्ञानां स्वसाध्ये दृष्ट्यादिफले यः खल्वव्यभिचारः, स तत्मीणितदेवताविशेषानुग्रहहेतुकः । एवं त्रिपुरार्णववर्णितंच्छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिरपि तदनुकूलितदैवतप्रसादसंपाद्या । अतिथिप्रीतिस्तु-मधुपर्कसंस्काराद्विसमास्वादजा प्रत्यक्षोपलक्ष्यैव । १ ‘‘अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । इत्यर्चिर्मार्गः । अयमेवोत्तरमार्ग इत्यभिधीयते । भ.गी.अ. ८श्लो. २४ २ 'धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतियोगी प्राध्य निवर्तते ।। इति धूममार्गः । अयमेव दक्षिणमार्ग इत्यप्यभिधीयते । भ.गी.अ.८श्लो.२५ ३ ' या ' इति ख. पुस्तके नास्ति । ४ गार्ध्यात्–लोभात् । ५ 'सौनिक:--सूना हिंसा तया चरतीति सौनिको हिंसाजीवीत्यर्थः । ७५ श्लोक ११ ६ लुब्धकः -- व्याधः । ७ कारीरी--एतत्संज्ञिकेष्टिः । तस्याश्च फलं वृष्टिः । कं जलमृच्छतीति कारो जलदस्तमीरयति प्रेरयतीति कारीरीति कारीरीशब्दस्य व्युत्पत्तिः । ८ त्रिपुरार्णवो - मन्त्रशास्त्रविषयको निबन्धः । १० जाङ्गलं-- हरिणमांसम् । ११ दधिमधुसंयुक्तः पूजाविशेषः । १२ ' एवं पितॄणाम् ' इति क पुस्तके पाठः । ९ छगलो मेषः ।
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy