________________
८२
श्लोक ११
अन्ययोगव्यवच्छेदिका पद्यते ? इतश्च विवाहादौ नोपलम्भावकाशः, इति चेत् । अहो ! वचनवैचित्री यथा वर्तमानजन्मनि विवाहादिषु प्रयुक्तैर्मन्त्रसंस्कारैरागामिनि जन्मनि तत्फलम्, एवं द्वितीयादिजन्मान्तरेष्वपि विवाहादीनामेव प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारेऽनन्तभवानुसन्धान प्रसज्यते। एवं च न कदाचन संसारस्य परिसमाप्तिः। तथा च न कस्यचिदपवर्गप्राप्तिः । इति प्राप्तं भवदभिमतवेदस्य पर्यवसितसंसारवल्लरीमूलकन्दत्वम् । आरोग्यादिप्रार्थना तु असत्याऽमृषाभाषापरिणामविशुद्धिकारणत्वाद् न दोषाय, तत्र हि-भावारोग्यादिकमेव विवक्षितम् , तच्च चातुर्गतिकसंसारलक्षणभावरोगपरिक्षयस्वरूपत्वाद्-उत्तमफलम् । तद्विषया च प्रार्थना कथमिव विवेकिनामनादरणीयाः । न च तज्जन्यपरिणामविशुद्धस्तत्फलं न प्राप्यते । सर्ववादिनां भावशुद्धेरपवर्गफलसम्पादनेऽविप्रतिपत्तेरिति । ___नच वेदनिवेदिता हिंसा न कुत्सिता । सम्यग्दर्शनज्ञानसम्पन्नरचिार्गप्रपन्नैर्वेदान्तवादिभिश्च गार्हतत्वात् । तथा च तत्त्वदर्शिनः पठन्ति
" देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम्" ॥१॥ वेदान्तिका अप्याहुः" अन्धे तमास मज्जामः पशुभिर्ये यजामहे ।। हिंसा नाम भवेद् धर्मो न भूतो न भविष्यति" ॥१॥
तथा · अग्निर्मामेतस्माद्धिंसाकृतादेनसो मुञ्चतु' छान्दसत्वाद् मोचयतु इत्यर्थः। इति । १ 'अतश्च ' ख. क. ह. रा. पुस्तकेषु पाठः । २ नारक १ तिर्यक् २ मानुष ३ देव ४ इति गतिचतुष्टयम् । ३ 'आचार्गः' (७९) पृष्ठे टिप्यन्यां द्रष्टव्यः । . ४ 'यथा' इति ख. पुस्तके पाठः।