________________
८३
स्याद्वादमञ्जरीसहिता
श्लोक १.६
व्यासेनाप्युक्तम्:
" ज्ञानपालिपरिक्षिप्ते ब्रह्मचर्यदयाम्भसि । स्नात्वाऽतिविमले तीर्थे पापपङ्कापहारिणि ॥ १ ॥ ध्यानानौं जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरूत्तमम् ॥ २॥ कषायपशुभिर्दुष्टैर्धर्मकामार्थनाशकैः । शममन्त्रहुतैर्यज्ञं विधेहि, विहितं बुधैः ॥ ३ ॥ प्राणिघातात् तु यो धर्ममीहते मूढमानसः । स वाञ्छति सुधावृष्टिं कृष्णाहिमुखकोटरात् ॥ ४ ॥ इत्यादि ।
यच्च याज्ञिकानां लोकपूज्यत्वोपलम्भादित्युक्तम् । इदमप्यसारम् । अबुधा एव पूजयन्ति तान् न तु विविक्तबुद्धयः । अबुध- पूज्यता तु न प्रमाणम् । तस्याः सारमेयादिष्वप्युपलम्भात् । यदप्यभिहितं -- देवतातिथिपितृप्रीतिसंपादकत्वाद् वेदविहिता हिंसा न दोषायति । तदपि वितथम् । येतो देवानां संकल्पमात्रोपनताभिमताहारपुद्गलरसास्वाद सुहितानां वैक्रियैशरीरत्वाद् युष्मदावर्जितो जुगुप्सितपशुमांसाद्याहुतिप्रगृहीतौ, इच्छेव दुःसंभवा । औदारिकशरीरिणामेव तदुपादानयोग्यत्वात् । प्रक्षेपाहारस्वीकारे च देवानां मन्त्रमयदेहत्वाभ्युपगमबाधः । न च तेषां मन्त्रमयदेहत्वं भवत्पक्षे न सिद्धम् । “चतुर्थ्यन्तं पदमेव देवता” इति जैमिनिवचनप्रामाष्यात् । तथा च मृगेन्द्रः
१ 'तदप्यरम्' इति ह. पुस्तके पाठः । २ 'यथा, इति ख. पुस्तके पाठः । ३ | ४ विस्तस्तु तत्त्वार्थसू. २-४९ द्रष्टव्यः ।