________________
श्लोक ११
अन्ययोगव्यवच्छेदिका
" शब्देतरत्वे, युगपद् भिन्नदेशेषु यष्टुषु । न सा प्रयाति सांनिध्यं मूर्तत्वादस्मदादिवत् " ॥ १ ॥ सेति देवता ।
८४
46
हूयमानस्य च वस्तुनो भस्मीभावमात्रोपलम्भात्, तदुपभोगजनिता देवानां प्रीतिः प्रलापमात्रम् । अपि च, योऽयं त्रेताग्निः - स त्रयत्रिंशत्कोटिदेवतानां मुखम्; “अग्निमुखा वै देवाः " इति श्रुतेः । ततश्चोत्तममध्यमाधमदेवानामेकेनैव मुखेन भुञ्जानानामन्योन्योच्छिष्टभुक्तिप्रसङ्गः । तथा च ते तुरुष्केभ्योऽप्यतिरिच्यन्ते । तेऽपि तावदेकत्रैवामत्रे भुञ्जते, न पुनरेकेनैव वदनेन । किञ्च एकस्मिन् वपुषि वनवाहुल्यं वचन श्रूयते यत्पुनरनेकशरीरेष्वेकं मुखमिति महदाश्चर्यम् । सर्वेषां च देवानामेकस्मिन्नेव मुखेऽङ्गीकृते, यदा केनचिदेको देवः पूजादिनाऽराद्धोऽन्यश्च निन्दादिना विराद्धः, ततश्वेकेनैव मुखेन युगपदनुग्रहनिग्रहवाक्योच्चारणसङ्करः प्रसज्येत । अन्यच्च मुखं देहस्य नवमो भागः, तदपि येषां दाहात्मकं तेषामेकैकशः सकलदेहस्य दाहात्मकत्वं त्रिभुवनभस्मीकरणपर्यवसितमेव संभाव्यत इत्यलमतिचर्चया ।
यश्च कारीरीयज्ञादौ दृष्ट्यादिफलेऽव्यभिचारस्तत्प्रीणितदेवतानुग्रहहेतुक उक्तः - सोऽप्यनैकान्तिकः । कचिद् व्यभिचारस्यापि दर्शनात् । यत्रापि न व्यभिचारस्तत्रापि न त्वदाहिताहुतिभोजनजन्मा तदनुग्रहः, किन्तु स देवताविशेषोऽतिशयज्ञानी स्वोदेशनिर्वर्तितं
१ देवताः शब्दमयाः । अस्मदादिवत्तेषां मूर्तिस्वीकारे युगपत्सकलयज्ञेषु गमनासंभव इत्यर्थः ।
२ (१) दक्षिणाग्निः (२) आहवनीयः (३) गार्हपत्य इति त्रयोऽनयः । ' अग्नित्रयमिदं त्रेता' इत्यमरः ।
३ आश्व. ग. सू. अ. ४
४ तुरुष्काः -- यवनाः । ५ अमत्रं--पात्रम् ।