________________
स्याद्वादमञ्जरी सहिता
श्लोक ११
पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते, तदा तत्कर्तारं प्रति प्रसन्नचेतोवृत्तिस्तत्र्त्तत्कार्याणीच्छावशात् साधयति । अनुपयोगादिना पुनरजानानो जानानोऽपि वा पूजाकर्तुरभाग्यसहकृतः सन् न साधयति । द्रव्यक्षेत्रकालभावादिसहकारिसाचिव्यापेक्षस्यैव कार्योत्पादस्योपलम्भात् । स च पूजोपचारः पशुविशसनव्यतिरिक्तैः प्रकारान्तरैरपि सुकरः, तत्किमनया पापैकफलया सौनिकवृत्त्या ? |
باسی
यच्च छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिसिद्धया देव्याः परितोषानुमानम्, तत्र कः किमाह ? कासाञ्चित् क्षुद्रदेवतानां तथैव प्रत्यङ्गीकारात् केवलं तत्रापि तद्वस्तुदर्शनज्ञानादिनैव परितोषो, न पुनस्तदुपभुक्त्या । निम्बपत्रकटुकतैलारेनालधूमांशादीनां हूयमानद्रव्याणामपि तद्भोज्यत्वप्रसङ्गात् । परमार्थतस्तु तत्तत्सहकारिसमवधान सचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति । अचेतने चिन्तामप्यादौ तथा दर्शनात् । अतिथीनां तु प्रीतिः संस्कार संपन्न पक्कान्नादिनापि साध्या । तदर्थं महोक्षमहाजादिप्रकल्पनं निर्विवेकतामेव ख्यापयति ।
पितॄणां पुनः प्रीतिरनैकान्तिकी । श्राद्धादिविधानेनापि भूयसां सन्तानवृद्धेरनुपलब्धेः । तदविधानेऽपि च केषाञ्चिद् गर्दभशूकराजादीनामिव सुतरां तदर्शनात् । ततश्च श्राद्धादिविधानं मुग्धजनविप्रतारणमात्रफलमेव । ये हि लोकान्तरं प्राप्तास्ते तावत् स्वकृतसुकृतदुष्कृतकर्मानुसारेण सुरनारकादिगतिषु सुखमसुखं वा भुञ्जाना एवासते । ते कथमिव तनयादिभिरावर्जितं पिण्डमुपभोक्तुं स्पृहयालवोऽपि स्युः ? । तथा च युष्मद्यथिनः पठन्ति —
I
१ 'तत्कार्याणि' इति च पुस्तके पाठः ।
२ आरनलः –– तन्दुलजातिविशेषः ।
३ धूमांश:-- सालवृक्षः । ' साग' इति भाषायाम् ।
6
४ यूथ्येन' पठितम् इति क पुस्तके पाठः ।