________________
श्लोक ११
अन्ययोगव्यवच्छेदिका “मृतानामपि जन्तूनां श्राद्धं चेत् तृप्तिकारणम् । तन्निर्वाणप्रदीपस्य स्नेहः संवर्धयेच्छिखाम्" ॥१॥ इति ।
कथं च श्राद्धविधानाधर्जितं पुण्यं तेषां समीपमुपैतु । तस्य तदन्यकृतत्वात् जडत्वाद् निश्चरणत्वाच्च ।
अथ तेषामुद्देशेन श्राद्धादिविधानेऽपि पुण्यं दातुरेव तनयादेः स्यादिति चेत् । तन्न । तेन तज्जन्यपुण्यस्य स्वाध्यवसायादुत्तारितत्वात् । एवं च तत्पुण्यं नैकतरस्यापि इति-विचाल एव विलीनं त्रिशकुज्ञातेन, किन्तु पापानुबन्धिपुण्यत्वात् तत्त्वतः पापमेव । अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत् क इवैतत्प्रत्येतु ? विप्राणामेव मेदुरोदरतादर्शनात् । तद्वपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते । भोजनावसरे तत्सङ्क्रमलिङ्गस्य कस्याप्यनवलोकनात्, विप्राणामेव च तृप्तेः साक्षात्करणात् । यदि परं त एव स्थूलकवलैराकुलतरमतिगााद भक्षयन्तःप्रेतप्रायाः, इति मुधैव श्राद्धादिविधानम्। यदपि च गयाश्राद्धादियाचनमुपलभ्यते, तदपि तादृशविप्रलम्भकविभङ्गज्ञानि-व्यन्तरादिकृतमेव निश्चयम् ।
यदप्युदितम्-आगमश्चात्र प्रमाणमिति । तदप्यप्रमाणम् । स हि पौरुषेयो वा स्यात्, अपौरुषेयो वा ?। पौरुषेयश्चेत् सर्वज्ञकृतः,
१ मध्य एव । अकाण्ड इत्यर्थः । २ वसिष्ठशापेन त्रिशङ्कर्नाम राजा चण्डालत्वमाप । ततस्तेन विश्वामित्रद्वारा क्रतुः संपादितस्तन्माहात्म्याद्भमे: स्वर्गमार्ग ययौ । इन्द्रादिभिस्तस्य स्वर्गो निषिद्धस्तदा सोऽन्तराल एव स्थितः । तथा च तेन स्वर्गसुखं न वा भूमिसुखं लब्धं तद्वत् । ___ ३ 'गेहादू गेहान्तरं कश्चिच्छोभनादितरं नरः । याति यद्वदसद्धर्मात्तद्वदेव भवाद्भवम् । ॥ २ ॥ हरिभद्रसूरिविरचिते चतुर्विंशतितमेऽष्टके द्वितीयः श्लोकः ।
४ 'भक्षयन्त' इति घ. पुस्तके नास्ति । ५ वत्त्वार्थसू० १-३२।