________________
स्याद्वादमञ्जरीसहिता.
श्लोक ११ तदितरकृतो वा ?। आद्यपक्षे-युष्मन्मतव्याहातः । तथा च भवत्सिद्धान्तः- .
" अतीन्द्रियाणामर्थानां साक्षाद् द्रष्टा न विद्यते। नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः"१॥.
द्वितीयपक्षे तु-तत्र दोषवत्कर्तृत्वेनाश्वासप्रसङ्गः। अपौरुषेयश्वेत् न संभवत्येव । स्वरूपनिराकरणात्, तुरङ्गशृङ्गवत् । तथाहिउक्तिर्वचनमुच्यते इति चेति पुरुषक्रियानुगतं रूपमस्य। एतक्रियाभावे कथं भवितुमर्हति ?। न चैतत् केवलं कचिध्वनदुपलभ्यते। उपलब्धावष्यदृश्यवकाशङ्कासंभवात् । तस्मात् वचनं तत् पौरुषेयमेव, वर्णात्मकत्वात्, कुमारसंभवादिवचनवत्, वचनात्मकश्च वेदः।तथा चाहुः"ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च। पुंसश्चताल्वादिरतः कथं स्यादपौरुषेयोऽयामतिप्रतीतिः?"
श्रुतेरपौरुषेयत्वमुररीकृत्यापि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषेयमेवाङ्गीक्रियते । अन्यथा अग्निहोत्रंजुहुयात् स्वर्गकामः' इत्यस्य-श्वमांस भक्षयोदिति किं नार्थः ? नियामकाभावात् । ततो वरं सूत्रमपि पौरुषेयमभ्युपगतम् । अस्तु वाऽपौरुषेयः, तथापि तस्य न प्रामाण्यम्-आप्तपुरुषाधीना हि वाचां प्रमाणतेति । एवं च तस्याप्रामाण्ये, तदुक्तस्तदनुपातिस्मृतिप्रतिपादितश्च-हिंसात्मको यागश्राद्धादिविधिः प्रामाण्यविधुर एवेति । - ___ अथ योऽयं में हिंस्यात् सर्वभूतानि' इत्यादिना हिं
१ 'तस्मादतीन्द्रियार्थानां साक्षाद्र्ष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ ६९ ॥ श्रीहरिभद्रसूरिकृतषड्दर्शनसमुच्चये जैमिनीयदर्शने। २ 'यद्' इत्यधिकं क, ख. घ. पुस्तकेषु । ३ कुमारसंभवाख्यं काव्यं कालिदासकृतम् । ४ ते.सं.। ५ छां, अ,८