________________
श्लोक ११
अन्ययोगव्यवच्छेदिका सानिषेधः स औत्सर्गिको मार्गः, सामान्यतो विधिरित्यर्थः। वेदविहिता तु हिंसा अपवादपदम् । विशेषतो विधिरित्यर्थः । ततश्चापवादेनोत्सर्गस्य बाधितत्वाद् न श्रौतो हिंसाविधिर्दोषाय, “ उत्सर्गापवादयोरपवादो विधिबलीयान् ” इति न्यायात् । भवतामपि हि न खल्वेकान्तेन हिंसानिषेधः । तत्तत्कारणे जाते पृथिव्यादिप्रतिसेवनानामनुज्ञानात्, ग्लानाद्यसंस्तरे आधाँकर्मादिग्रहणभणनाच्च । अपवादपदं च-याज्ञिकी हिंसा, देवतादिपीतेः पुष्टालम्बनत्वात् । इति परमाशङ्कय स्तुतिकार आह-नोत्सृष्टमित्यादि । . अन्यार्थमिति मध्यवर्ति पदं डमरुकमणिन्यायेनोभयत्रापि सम्बन्धनीयम् । अन्यार्थमुत्सृष्टंम्-अन्यस्मै कार्याय प्रयुक्तम्-उत्सर्गवाक्यम् , अन्यार्थप्रयुक्तेन वाक्येन, नगपोद्यते-नापवादगोचरीक्रियते । यमेवार्थमाश्रित्य शास्त्रेषूत्सर्गः प्रवर्तते; तमेवार्थमाश्रित्यापवादोऽपि प्रवर्तते; तयोनिम्नोन्नतादिव्यवहारवत् परस्परसापेक्षत्वेनैका. र्थसाधनविषयत्वात् । यथा जैनानां संयमपरिपालनार्थ नवकोटि१ श्रीहेमहंसगणिसमुच्चितहेमव्याकरणस्थन्यायः । २ ग्लानाद्यसंस्तर:-.संयमानिर्वाहः।
३ आधाय साधूंश्चेतसि प्रणिधाय यत्क्रियते भक्तादि तदाधाकर्म । पृषोदरादित्वादिति यलोपः । आधानं साधुनिमित्तं चेतसः प्रणिधानं यथामुकस्य साधोः कारणेन मया भक्तादिपचनीयमिति । आधया कर्म पाकादिक्रिया-आधाकर्म । तद्योगाद् भक्ताद्यपि आधाकर्म।
४ डमरुमध्ये प्रतिबद्धो मणिरेक एव. सन् डमरुविचाले तदुभयाङ्गसंबद्धो भवति तद्वदेकमेवान्यार्थमिति पदमुभयत्र संबध्यते । अयमेव न्यायो देहलीदीपन्याय इत्यप्यभिधीयते ।
५ कोटयो नव । १ स्वयं हननं २ अन्येन घातनं ३ अपरेण हन्यमानस्यानुमोदनं ४ स्वयं पचनं ५ अन्येन पाचनं ६ अपरेण पाच्यमानस्यानुमोदनं ७ स्वयं क्रयणं ८ अन्येन क्रायणं ९ अपरेण क्रीयमाणस्यानुमोदनम् । इति मलयगिर्याचार्यकृतायां पिण्डनियुक्तिविवृतौ उद्गमद्वारे गा. ४.५ ।