________________
स्थाद्वादमञ्जरीसहिता
श्लोक ११ विशुद्धहारग्रहणमुत्सर्गः । तथाविधद्रव्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराभावे पञ्चकादियतनयाऽनेषणीयादिग्रहणमपवादः। सोऽपि च संयमपरिपालनार्थमेव । नच मरणैकशरणस्य गत्यन्तराभावोऽसिद्ध इति वाच्यम् ।
“सम्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही नयाऽविरई "॥१॥ इत्यागमात् ।
तथा आयुर्वेदेऽपि यमेवैकं रोगमधिकृत्य कस्यांश्चिदवस्थायां किश्चिद्वस्त्वपथ्यं, तदेवावस्थान्तरे तत्रैव रोगे पथ्यम्" उत्पद्यते हि सावस्था देशकालामयान् प्रति । यस्यामकार्य कार्य स्यात् कर्म कार्य तु वर्जयेत्" ॥१॥ इति वचनात् ।
यथा बलवदादेवरिणो लङ्गन, क्षीणधातोस्तु तद्विपर्ययः । एवं देशाद्यपेक्षया ज्वरिणोऽपि दधिपानादियोज्यम् । तथा च वैद्याः
१ 'तत्थेव अन्यगामे वुच्छन्तर असंभरंत जयणाए । संथरणे सणमादि छन्नं कडजोगी गीयत्थे ॥ 'प्रथमतस्तत्रैव ग्रामे प्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदान्यग्रामेऽपि । अथासावन्यग्रामो दूरतरस्ततोऽन्तरालेऽपान्तरालग्राम उषित्वा द्वितीये दिन आनयन्ति । अथैवमप्यसंस्तरणं भवति ततः, अकारप्रश्लेषादसंस्तरतो ग्लानस्यार्थाय यतनया पञ्चकपरिहाण्या गृह्णन्ति । अथ ग्लानार्थ व्यापृतानां परिचारकाणां संस्तरणं तत एषणादोषेषु आदिशब्दादुद्गमादिदोषेषु च पञ्चकपरिहाण्या यतितव्यम् । अथ प्रतिदिवसं ग्लानप्रायोग्यं न लभ्यते ततश्छन्नमप्रकटं कृतयोगी गीतार्थो वा प्रायोग्यं द्रव्यं परिवासयन्ति । यथाकर्णितछेदश्रुतार्थः प्रत्युच्चारणासमर्थः कृतयोगी यस्तु छेदश्रुतार्थ श्रुत्वा प्रत्युच्चारयितुमीशः स गीतार्थ उच्यते' । बृहत्कल्पसूत्रे १ उद्देशे बृहच्छालीयश्रीक्षेमकीतिसूरिकृतटीकायाम् । ( समासार्थोऽपि तत्रैव । )
२ अनेषणीयं-अशुद्धम् । ३ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात्पुनर्विशुद्धिन चाविरतिः ॥ इति छाया ।
१२