________________
श्लोक ११
अन्ययोगव्यवच्छेदिका
“ कालाविरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान् " ॥ १॥
एवं च यः पूर्वमपथ्यपरिहारो, यश्च तत्रैवावस्थान्तरे तस्यैव परिभोगः– स खलूभयोरपि तस्यैव रोगस्य शमनार्थः । इति सिद्धमेकविषयत्वमुत्सर्गापवादयोरिति ।
भवतां चोत्सर्गोऽन्यार्थः, अपवादश्चान्यार्थः । "नं हिंस्यात् सर्वभूतानि " इत्युत्सर्गो हि दुर्गातिनिषेधार्थः । अपवादस्तु वैदिकहिंसाविधिर्देवताऽतिथिपितृप्रीतिसंपादनार्थः । अतश्च परस्परनिरपेक्षत्वे कथमुत्सर्गोऽपवादेन बाध्यते ? ' तुल्यबलयोर्विरोध ' इति न्यायात | भिन्नार्थत्वेऽपि तेन तद्भाधने- अतिप्रसङ्गात् । नच वाच्यं वैदिक हिंसाविधिरपि स्वर्ग हेतुतया दुर्गतिनिषेधार्थ एवेति । तस्योक्तयुक्त्या स्वर्गहेतुत्वनिर्लोठनात् । तमन्तरेणापि च प्रकारान्तरैरपि तत्सिद्धिभावात् । गत्यन्तराभावे ह्यपवादपक्षकक्षीकारः ।
नच वयमेव यागविधेः सुगतिहेतुत्वं नाङ्गीकुर्महे, किन्तु भवदाप्ता अपि । यदाह व्यासमहर्षिः
" पूजया विपुलं राज्यमग्निकार्येण संपदः ।
तपः पापविशुध्यर्थं ज्ञानं ध्यानं च मुक्तिदम् " ॥ १ ॥ अत्राग्निकार्यशब्दवाच्यस्य यागादिविधेरुपायान्तरैरपि लभ्यानां संपदामेव हेतुत्वं वदन्नाचार्य :- तस्य सुगतिहेतुत्वमर्थात् कदर्थितवानेव । तथाच स एव भावाग्निहोत्रं ज्ञानपालीत्यादिश्लोकैः स्थापितवान् ।
१ 'इति' पदं क पुस्तके नास्ति ।
२ छां. अ. ८ ।
३ 'विधिरपि स्व' इति क पुस्तके पाठः ।
४ कक्षीकारः - अङ्गीकरणम् ।
५ (८३ ) पत्रे ११ श्लोके उद्धृता अवतरणं ।