________________
स्याद्वादमअरीसहिता
श्लोक १२ तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूषयति-स्वपुत्रेत्यादि । परेषां-भवत्पतिवचनपराङ्मुखानां स्फुरितं चेष्टितम्, स्वपु
घाताद् नृपतित्वलिप्सासब्रह्मचारि-निजसुतनिपातनेन सज्यप्राप्तिमनोरथसदृशम् । यथा किल कश्चिदविपश्चित् पुरुषः परुषाशयतया निजमङ्गजं व्यापाद्य राज्यश्रियं प्राप्नुमीहते । नच तस्य तत्प्राप्तावपि पुत्रघातपातककलङ्कपङ्कः कचिदपयाति । एवं वेदविहिताहंसया देवतादिप्रीतिसिद्धावपि, हिंसासमुत्थं दुष्कृतं न खलु पराहन्येत । अत्र च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो ज्ञापयति--यथा तस्य दुराशयस्यासदृशतादृशदुष्कर्मनिर्माणनिर्मूलितसत्कर्मणो राज्यप्राप्तौ केवलं समीहामात्रमेव, न पुनस्तत्सिद्धिः । एवं तेषां दुर्वा दिनां वेदविहितां हिंसामनुतिष्ठतामपि देवतादिपरितोषणे मनोराज्यमेव, न पुनस्तेषामुत्तमजनपूज्यत्वमिन्द्रादिदिवौकसां च तृप्तिः । प्रागुक्तयुक्त्या निराकृतत्वात् । इति काल्यार्थः ॥११॥ -
साप्रतं नित्यपरोक्षज्ञानवादिनां मीमांसकभेदभट्टानाम् एकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां च यौगानां मतं विकुट्टयन्नाह
स्वार्थावबोधक्षम एव बोधः . प्रकाशते नार्थकथान्यथा तु।
परे परेभ्यो भयतस्तथापि - प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२॥
बोधो-ज्ञानं, स च स्वार्थावबोधक्षम एव प्रकाशते-स्वस्य१. 'श्रूयतां धर्मसर्वस्वमित्यादि स्वोत्पन्नवचनरूपनिजसुतनिपातनेन वेदविहितहिंसाया मुग्धपुरुषस्वामित्वक्षुद्र' इति घ. पुस्तके पाठः। .
२ 'पराहन्यते' इति च, पुस्तके पाठः । ३ स्वपुत्रपतित्वाभावे पुरुषपतित्वस्याप्यभावात्तत्त्वतो न तत्सिद्धिरितिघ, पुस्तके पाठः।