________________
श्लोक १२
अन्ययोगव्यवच्छेदिका
९२
आत्मस्वरूपस्य, अर्थस्य च योऽवबोधः-परिच्छेदस्तत्र, क्षम एवसमर्थ एव प्रतिभासते। इत्ययोगव्यवच्छेदः । प्रकाशत इति क्रियया अवबोधस्य प्रकाशरूपत्वसिद्धेः-सर्वप्रकाशानां स्वार्थप्रकाशकत्वेन, बोधस्यापि तत्सिद्धिः । विपर्यये दूषणमाह-नार्थकथान्यथात्विति । अन्यथेति-अर्थप्रकाशनेऽविवादाद, ज्ञानस्य स्वसंविदितत्वानभ्युपगमेऽर्थकथैव न स्यात् । अर्थकथापदार्थसम्बन्धिनी वार्ता, सदसद्रूपात्मकं स्वरूपमिति यावत् । तुशब्दोऽवधारणे भिन्नक्रमच, ‘स चार्थकथया सह योजित एव । यदि हि ज्ञानं स्वसंविदितं नष्यते, तदा तेनात्मज्ञानाय ज्ञानान्तरमपेक्षणीयं तेनाप्यपरमित्याद्यनवस्था । ततो ज्ञानं तावत् स्वावबोधव्यग्रतामग्नम् । अर्थस्तु जडतया स्वरूपज्ञापनासमर्थ इति को नामार्थस्य कथामपि कथयेत् ।
तथापि-एवं ज्ञानस्य स्वसंविदितत्वे युक्त्या घटमानेऽपि, परे-तीर्थान्तरीयाः, ज्ञानं-कर्मतापन्नम्, अनात्मनिष्ठ-न विद्यत आत्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्मनिष्ठम्, अस्वसंविदितमित्यर्थः, प्रपेदिरे-प्रपन्नाः । कुतः ? इत्याह-परेभ्यो भयतः, परेपूर्वपक्षवादिनः, तेभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नोपपद्यते, स्वात्मनि क्रियाविरोधादित्युपालम्भसम्भावनासम्भवं यद्भयं तस्मात्-तदाश्रित्येत्यर्थः।
इत्थमक्षरगमनिकां विधाय भावार्थः प्रपञ्च्यते-भट्टास्तावदिदं १ अतः परं 'पदार्थस्य' इति क. ख. घ. पुस्तकेष्वाधिकम् । २ 'प्रकाशते' इत्यतः 'तत्सिद्धिः' इत्यन्तं क. ख. पुस्तकयो स्ति । ३ 'वस्तुस्वरूपम्' इति क. पुस्तके पाठः। - ४ 'ज्ञानार्थम्' इति घ. पुस्तके पाठः।
५ स्वप्रकाशत्वं नाम स्वप्रकाशजनकत्वं तत्स्वात्मनि क्रियां विनात्यन्तमसंभवि । 'गुणादिनिर्गुणक्रियः' इत्युक्तेः । आत्मनो ये चतुर्दश गुणास्तत्र ज्ञानमात्मनो विशेषगुणः ।
६ वैशेषिकोपालम्भः।