________________
स्थाद्वादमञ्जरीसहिता
श्लोक १२ वदन्ति यत् ज्ञानं स्वसंविदितं न भवति, स्वात्मनि क्रियाविरोधात् । न हि सुशिक्षितोऽपि नटबटुः स्वस्कन्धमधिरोढुं पटुः, न च सुतीक्ष्णाप्यसिधारा स्वं छेत्तुमाहितव्यापाराः । ततश्च परोक्षमेव ज्ञानमिति । तदेतन सम्यक् यतः-किमुत्पत्तिः स्वात्मनि विरुध्यते ज्ञप्तिर्वा ? । यद्युत्पत्तिः-सा विरुध्यताम्, नहि वयमपि ज्ञानमात्मानमुत्पादयतीति मन्यामहे । अथ ज्ञप्तिः-नेयमात्मनि विरुद्धा । तदात्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् । प्रकाशात्मनेव प्रदीपालोकस्य । अथ प्रकाशात्मैव प्रदीपालोक उत्पन्न इति परप्रकाशोऽस्तु । आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति कोऽयं न्यायः?। इति चेत् । तत्किं तेन वराकेणाप्रकाशितेनैव स्थातव्यम् , आलोकान्तराद् वास्य प्रकाशेन भवितव्यम् । प्रथमे प्रत्यक्षबाधः। द्वितीयेऽपि सैवानवस्थापत्तिश्च ।
अथ नासौ स्वमपेक्ष्य कर्मतया चकास्तीत्यस्वप्रकाशकः स्वीक्रियते, आत्मानं न प्रकाशयतीत्यर्थः । प्रकाशरूपतया तूत्पन्नत्वात् स्वयं प्रकाशत एवेति चेत् । चिरञ्जीव । नहि वयमाप ज्ञानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रूमः । ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं स्वं जानामीति कर्मतयापि तद्भाँति, तथा प्रदीपः स्वं प्रकाशयतीत्ययमापि कर्मतया प्रथित एव ।
यस्तु स्वात्मान क्रियाविरोधो दोष उद्भावितः-सोऽयुक्तः। अनुभवसिद्धेऽर्थे विरोधासिद्धेः। घटमहं जानामीत्यादौ कर्तृकर्मवद् १ 'भाव्यम्' इति क. पुस्तके पाठः । २ प्रकाशनात् । ३ 'स्वम्' इति घ. पुस्तके नास्ति । ४ शानम् । ५ 'प्रथत एव' इति ख. पुस्तके पाठः।
६ नहि दृष्टेऽनुपपन्नं नामति न्यायात् । किं च--'विरोधे वाविरोधे च प्रमाणं कारणं मतम् । प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते ॥