________________
श्लोक १२
अन्ययोगव्यवच्छेदिका ज्ञप्तेरप्यवभासमानत्वात् । न चाप्रत्यक्षोपलम्भस्यार्थदृष्टिः प्रसिध्यति। न च ज्ञानान्तरात् तदुपलम्भसम्भावना, तस्याप्यनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् । उपलम्भान्तरसम्भावने चानवस्था । अर्थोपलम्भात् तस्योपलम्भे-अन्योन्याश्रयदोषः।- .
अथार्थप्राकट्यमन्यथा नोपपद्येत-यदिज्ञानं न स्यात्, इत्यर्थापत्त्या तदुपलम्भ इति चेत् । न । तस्या अपि ज्ञापकत्वेमाज्ञाताया ज्ञापकत्वायोगात् । अर्थापत्त्यन्तरात् तज्ज्ञानेऽनवस्थेतरेतराश्रयदोषापत्तेः तदवस्थः परिभवः। तस्मादर्थोन्मुखतयेव स्वोन्मुखतयाऽपि ज्ञानस्य प्रतिभासात् स्वसंविदितत्वम् ।
नन्वनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्गः। प्रयोगस्तुज्ञानमनुभवरूपमप्यनुभूतिर्न भवति, अनुभाव्यत्वाद्, घटवत् , अनुभाव्यं च भवद्भिरिष्यते ज्ञानं, स्वसंवेद्यत्वात् । मैवम् । ज्ञातुर्मातृत्वेनेवानुभूतेरनुभूतित्वेनैवानुभवात् । नचानुभूतेरनुभाव्यत्वं दोषः। अ
र्थापेक्षयानुभूतित्वात् स्वापेक्षया चानुभाव्यत्वात् । स्वपितृपुत्रापेक्षयैकस्य पुत्रत्वपितृत्ववद् विरोधाभावात् ।
अनुमानाच्च स्वसंवेदनसिद्धिः। तथाहि-ज्ञानं स्वयंप्रकाशमानमेवार्थ प्रकाशयति, प्रकाशकत्वात् , प्रदीपवत् । संवेदनस्य प्रकाश्यत्वात् प्रकाशकत्वमसिद्धमिति चेत् । न । अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः।
१ 'पुष्टो देवदत्तो दिवा न भुङ्क्ते' इति वाक्ये पुष्टत्वान्यथानुपपत्त्या यथा रात्रिभोजनं कल्प्यते तथात्र घटज्ञानं विना घटप्राकट्यं नोपलभ्यत इति घटप्राकट्यान्यथानुपपत्त्या घटज्ञानं कल्प्यते। २ तस्याः-अर्थापत्तेः। ३ 'नैवम्' इति घ. रा. पुस्तकयोः पाठः। ४ प्रदीपस्यार्थापेक्षया प्रकाशकत्वं स्वापेक्षवा च प्रकाश्यप्रकाशकत्वम् ।