________________
स्याद्वादमञ्जरीसहिता
श्लोक १२ . ननु नेत्रादयः प्रकाशका अपि स्वं न प्रकाशयन्तीति प्रकाशकत्वहेतोरनैकान्त्रिकतोत चेत् । न । नेत्रादिभिरनैकान्तिकता-तेषां लब्ध्युपयोगलक्षणभावेन्द्रियरूपाणामेव प्रकाशकत्वात् । भावेन्द्रियाणां च स्वसंवेदनरूपतैवेति न व्यभिचारः। तथा संवित् स्वप्रकाशा, अर्थप्रतीतित्वात् , यः स्वप्रकाशो न भवति नासावर्थप्रतीतिः, यथा घटः।
तदेवं सिद्धेऽपि प्रत्यक्षानुमानाभ्यां ज्ञानस्य स्वसंविदितत्वे "सत्संप्रयोगे इन्द्रियबुद्धिजन्मलक्षणं ज्ञानं, ततोऽर्थप्राकव्यं, तस्मादर्थापत्तिः, तया प्रवर्तकज्ञानस्योपलम्भः" इत्येवंरूपा त्रिपुटीप्रत्यक्षकल्पना भट्टानां प्रयासफलैव-। यौास्त्वाहु:ज्ञानं स्वान्यप्रकाश्यम् , ईश्वरज्ञानान्यत्वे सति प्रमेयत्वात् , घटवत् । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरोद्भविष्णुमानसप्रत्यक्षेणैव लक्ष्यते, न पुनः स्वेन । नचैवमनवस्था।अर्थावसायिज्ञानोत्पादमात्रेणैवार्थसिद्धौ प्रमातुः कृतार्थत्वात् । अर्थज्ञानजिज्ञासायां तु तत्रापि ज्ञानमुत्पद्यत एवेति । .
• तदयुक्तम्-पक्षस्य प्रत्यनुमानबाधितत्वेन हेतोः कालात्यंयापदिष्टत्वात् । तथाहि-विवादास्पदं ज्ञानं स्वसंविदितं, ज्ञानत्वात्। ईश्वरज्ञानवत् । नचायं वाद्यप्रतीतो दृष्टान्तः, पुरुषविशेषस्येश्वरतया जैनैरपि स्वीकृतत्वेन तज्ज्ञानस्य तेषां प्रसिद्धिः। ... व्यर्थविशेष्यश्चात्र तव हेतुः-समर्थविशेषणोपादानेनैव साध्य१ 'नात्र' इति क, ख, पुस्तकयोः पाठः।।
२ अर्थग्रहणशक्तिर्लब्धिः । अर्थसंग्रहणव्यापारस्तूपयोगः । एतयोर्लक्षणे. तत्त्वार्थसूत्रद्वितीयाध्याये श्लो. १६।१७।१८ द्रष्टव्ये ।।
३ जैमिनिसूत्रे प्रथमाध्याये प्रथमपादे ४/५ सूत्रार्थानुगुणमेतत् । ४ नैयायिकाः । ५ 'अनन्तरोत्पदिष्णु' इति क. ख. व. ह. पुस्तकेषु पाठः । ६ 'प्रसिद्धेः' इति क, ह. रा. पुस्तकेषु पाठः।