________________
श्लोक १२
अन्ययोगव्यवच्छेदिका सिद्धेः-अग्निसिद्धौ धूमवत्त्वे सति द्रव्यत्वादितिवद्, ईश्वरज्ञानान्यत्वादित्येतावतैव गतत्वात् । न हीश्वरज्ञानादन्यत् स्वसंविदितमप्रमेयं वा ज्ञानमस्ति, यव्यवच्छेदाय प्रमेयत्वादिति क्रियेत, भवन्मते तदन्यज्ञानस्य सर्वस्य प्रमेयत्वात् । .
... _अप्रयोजकश्चायं हेतुः-सोपाधित्वात् साधनाव्यापकः साध्येन समव्याप्तिश्च खलु-उपाधिरभिधीयते । तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । उपाधिश्चात्र जडत्वम् । तथाहिईश्वरज्ञानान्यत्वे प्रमेयत्वे च सत्यपि यदेव जडं स्तम्भादि तदेव स्वस्मादन्येन प्रकाश्यते । स्वप्रकाशे परमुखप्रेक्षित्वं हि जंडस्य लक्षणम् । न च ज्ञानं जडस्वरूपम् । अतः साधनाव्यापकत्वं जडत्वस्य । साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव । जाड्यं विहाय स्वप्रकाशाभावस्य, तं च त्यक्त्वा जाड्यस्य कचिदप्यदर्शनात् इति ।
यच्चोक्तं “समुत्पन्नं हि ज्ञानमेकात्मसमवेतम्" इत्यादि । तदप्यसत्यम् । इत्थमर्थज्ञानतज्ज्ञानयोरुत्पद्यमानयोः क्रमानुपलक्षणत्वाद् , इति । आशुत्पादात् क्रमानुपलक्षणमुत्पलपत्रशतव्यातिभेदवद् इति चेत् । जिज्ञासाव्यवहितस्यार्थज्ञानस्योत्पादप्रतिपादनात् । नच ज्ञानानां जिज्ञासासमुत्पाद्यत्वं घटते । अजिनासितष्वपि योग्यदेशेषु विषयेषु तदुत्पादप्रतीतेः । नचार्थज्ञानमयोग्य
१ 'समव्याप्तिकश्च' इति ख. घ. पुस्तकयोः पाठः ।
२ यत्र यत्र जाड्यं तत्र तत्र स्वप्रकाशाभावः । यम च स्वप्रकाशाभावस्ता तत्र जाड्यमिति सम्यग्हेतौ त्वेकविधैव व्याप्तिः। नहि भवति यत्र यत्रामिस्ता तत्र धूम इति । अङ्गारावस्थायां धूमानुपलम्भनातू ।
३ मृदूनां कमलपत्राणां वेधः प्रतिपत्रं क्रमेण भवति तथापि तस्य शीघ्रभावित्वात्स क्रमो नोपलक्ष्यते तद्वदित्यर्थः।
४ 'तन्न' इति क. ख. ध. पुस्तकेषु अधिकम् ।