________________
९७
स्याद्वादमञ्जरीसहिता
श्लोक १३
देशम् | आत्मसमवेतस्यास्य समुत्पादात् । इति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः । अथोत्पद्यतां नामेदं - को दोष: ? इति चेत् । नन्वेवमेव तज्ज्ञानज्ञानेऽप्यपरज्ञानोत्पादप्रसङ्गः । तत्रापि चैवमेवार्यम् । इत्यपरापरज्ञानोत्पादपरम्परायामेवात्मनो व्यापारात् न विषयान्तरसंचारः स्यादिति । तस्माद्यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितज़ानान्तरव्यापारम्, यथा गोचरान्तरग्राहिज्ञानात् प्राग्भाविगोचरान्तरग्राहिधारावाहिज्ञान प्रबन्धस्यान्त्यज्ञानम् । ज्ञानं च विवादाध्यासितं रूपादिज्ञानम् इति न ज्ञानस्य ज्ञानान्तरज्ञेयता युक्तिं सहते । इति काव्यार्थः ॥ १२ ॥
,
अथ ये ब्रह्माद्वैतवादिनोऽविद्यापरपर्यायमायावशात् प्रतिभासमानत्वेन विश्वत्रयवर्तिवस्तुप्रपञ्चमपारमार्थिकं समर्थयन्ते,
तन्मतमुपहसन्नाह
माया सती चेद् द्वयतत्त्वसिद्धिरथासती हन्त कुतः प्रपञ्चः । मायैव चेदर्थसहा च तत्किं
माता च वन्ध्याच भवत्परेषाम् ॥ १३ ॥ तैर्वादिभिस्तात्त्विकात्मब्रह्मव्यतिरिक्ता या माया - अविद्या
प्रपञ्च हेतुः परिकल्पिता, सा सद्रूपा असद्रूपा वा द्वयी गतिः । सतीसद्रूपा चेत तदा द्वयतत्त्वासिद्धिः - द्वाववयवौ यस्य तद् द्वयं, तथाविधं यत तत्त्वं परमार्थः, तस्य सिद्धि: । अयमर्थः - एकं तावत् त्वर्दभि
१ 'नत्वेवम्' इति क पुस्तके पाठः ।
२ 'न्याय' इत्यधिकं घ. पुस्तके |
३ एकस्मिन्नेव घटे 'घटोऽयम् ' 'घटोऽयम्' इत्येवमुत्पद्यमानान्युत्तरोत्तरज्ञानानि धारावाहिकज्ञानानि ।
४ 'अभिमतम्' इति क पुस्तके पाठः ।
१३