________________
श्लोक १३
अन्ययोगव्यवच्छेदिका
मतं तात्त्विकमात्मब्रह्म, द्वितीया च माया तत्त्वरूपा | सद्रूपतयाङ्गीक्रियमाणत्वात् । तथा चाद्वैतवादस्य मूले निहितः कुठारः । अथेति पक्षान्तरद्योतने । यदि असती —– गगनाम्भोजवद वस्तुरूपा सा माया, ततः, हन्त इत्युपदर्शने आश्चर्ये वा कुतः प्रपञ्चः ? अयं त्रिभुवनोदरविवरविवर्तिपदार्थसार्थरूपप्रपञ्चः कुतः ? नं कुतोऽपि संभवतीत्यर्थः । मायाया अवस्तुत्वेनाभ्युपगमात् अवस्तुनश्च तुरङ्गशृङ्गस्येव सर्वोपाख्याविरहितस्य साक्षात्क्रियमाणेदृशविवर्तजननेऽसमर्थत्वात् । किलेन्द्रजालादौ मृगतृष्णादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्थ्य दृष्टम्, अत्र तु तदुपलम्भात् कथं मायाव्यपदेश: श्रद्धीयताम् ? '
९८
।
अथ मायापि भविष्यति, अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा च भविष्यति इति चेत्, तर्हि स्ववचनविरोधः । नहि भवति माता च वन्ध्या चेति । एनमेवार्थं हृदि निधायोत्तरार्धमाह-मायैव चेदि - त्यादि । अत्रैवकारोऽप्यर्थः । अपिश्व समुच्चयार्थः । अग्रेतनचकारश्च तथा। उभयोश्च समुच्चयार्थयोर्योगपद्यद्योतकत्वं प्रतीतमेव । यथा रघुवंशे - ' ते चं प्रापुरुदन्वन्तं बुबुधे चादिपूरुष : ' । इति । तदयं वाक्यार्थः - माया च भविष्यति अर्थसहा च भविष्यति । अर्थसहा1 अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा, चेच्छन्दोऽत्र योज्यते इति चेत् । एवं परमाशङ्क्य तस्य स्ववचनविरोधमुद्भावयति - तत् किं भवत्परेषां माता च वन्ध्या च ? किमिति - संभावने । संभाव्यत एतत् - भवतो ये परे - प्रतिपक्षाः तेषां भवत्परेषां भवव्यतिरिक्तानां भवदाज्ञापृथग्भूतत्वेन तेषा वादिनां यन्माता च भविष्यति, वन्ध्या च भविष्य
"
१ 'सर्वोपेक्षा' इति क पुस्तके पाठः ।
२
' अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ' । इत्युत्तरार्धम् । रघुवंशे दशमसर्गे श्लो. ६ |