________________
स्याद्वादमञ्जरीसहिता
श्लोक १३ तीत्युपहासः । माता हि प्रसवधर्मिणी वनितोच्यते । वन्ध्या च तद्विपरीता । ततश्च माता चेत्कथं वन्ध्या ? वन्ध्या चेत्कथं माता ? तदेवं मायाया अवास्तव्या अप्यर्थसहत्वेऽङ्गीक्रियमाणे, प्रस्तुतवाक्यवत् स्पष्ट एव स्ववचनविरोधः । इति समासार्थः ।
व्यासार्थस्त्वयम्-ते वादिन इदं प्रणिगदान्त–तात्त्विकमात्मब्रह्मैवास्ति“सर्व वै खल्विदं ब्रह्म नेह नानास्ति किंचन ।
आरामं तस्य तश्यन्ति न तत्पश्यति कश्चन" ॥१॥ इति न्यायात् । अयं तु प्रपञ्चो मिथ्यारूपः , प्रतीयमानत्वात् । यदेवं तदेवम् । यथा शुक्तिशकले कलधौतम्। तथा चायं, तस्मात् तथा।
___ तदेतद्वार्तम् । तथाहि-मिथ्यारूपत्वं तैः कीदृग् विवक्षितम् ? किमत्यन्तासत्त्वम् , उतान्यस्यान्याकारतया प्रतीतत्वम् , आहोस्विदनिर्वाच्यत्वम् ? प्रथमपक्षे-असत्ख्यातिप्रसङ्गः । द्वितीयेविपरीतख्यातिस्वीकृतिः । तृतीये तु किमिदमनिर्वाच्यत्वम् ? निः• स्वभावत्वं चेत् , निसः प्रतिषेधार्थत्वे, स्वभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे, असत्ख्यातिसत्ख्यात्यभ्युपगमप्रसंगः । भावप्रतिषेधे--असंत्ख्यातिः , अभावप्रतिषेधे-सव्यातिरित।
प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत् । अत्र विरोधः-स प्रपञ्चो हि न प्रतीयते चेत् । कथं धर्मितयोपात्तः । कथं च प्रतीयमानत्वं हेतुतयोपात्तम् । तथोपादाने वा कथं न प्रतीयते । यथा प्रतीयते न तथेति चेत्, तर्हि विपरीतख्यातिरियमभ्युपगता स्यात् । किश्च इयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षबाधिता। घटोऽयमित्याद्या
१ उत्तरार्धं क. ख. घ. पुस्तकेषु नास्ति । २ निःसारम् ।
३ आत्मख्यातिरसत्रख्यातिरव्यातिः ख्यातिरन्यथा । तथानिर्वचनख्यातिरित्येतत्ख्यातिपञ्चकम् ॥ १॥
४ 'स' इति क. ख. पुस्तकयो स्ति। .