________________
श्लोक २८
अन्ययोगव्यवच्छेदिका
२१६
अत्रैकवचनमतन्त्रं तेनांशावंशा वा, येन परामर्शविशेषेण श्रुतप्रमाणप्रतिपन्नवस्तुनो विषयीक्रियन्ते तदितरांशौदासीन्यापेक्षया स नयोऽभिधीयते । तदितरांशप्रतिक्षेपे तु तदाभासता भणिष्यते । प्रत्यपादयाम च स्तुतिद्वात्रिंशति--
अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते! .
स्वकीयानामेषां विविधविषयव्याप्तिवाशिनाम् । विपक्षापेक्षाणां कथयास नयानां सुनयतां
विपक्षक्षेप्तॄणां पुनरिह विभो ! दुष्टनयताम् ॥ १ ॥ पञ्चाशति च---
निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां :
वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः। औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया
श्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः ।। १॥ ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तम् । स्वार्थव्यवसायात्मकत्वेन तस्य प्रमाणस्वरूपत्वात्। तथाहि-नयः प्रमाणमेव, स्वार्थव्यवसायकत्वादिष्टप्रमाणवत् स्वार्थव्यवसायकस्याप्यस्य प्रमाणत्वानभ्युपगमे प्रमाणस्यापि तथाविधस्य प्रमाणत्वं न स्यादिति कश्चित् । तदसत् । नयस्य स्वार्थैकदेशनिर्णातिलक्षणत्वेन स्यार्थव्यवसायकत्वासिद्धेः । ननु नयविषयतया संमतोऽर्थैकदेशोऽपि यदि वस्तु तदा तत्परिच्छेदी नयः प्रमाणमेव, वस्तुपरिच्छेदलक्षणत्वात्प्रमाणस्य । स न चेद्वस्तु तर्हि तद्विषयो नयो मिथ्याज्ञानमेव स्यात् , तस्यावस्तुविषयत्वलक्षणत्वादिति चेत् । तदवद्यम्। अर्थैकदेशस्य वस्तुत्वावस्तुत्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात् । तथा चावाचि
नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्र: समुद्रो वा समुद्रांशो यथैव हि ।। १ ।। तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता।
समुद्रबहुता वा स्यात् तत्त्वे वास्तु समुद्रवित् ?।। २ ॥ यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वप्रसङ्गात् समुद्रबहुत्वापत्तेा; तेषामपि प्रत्येकं समुद्रत्वात् । तस्यासमुद्रत्वे वा शेषसमुद्रांशानामप्यसमुद्रत्वात् क्वचिदपि समुद्रव्यवहारायोगात् । समुद्रांश: समुद्रांश . एवोच्यते, तथा स्वार्थेकदेशो नयस्य न वस्तु, स्वार्थंकदेशान्तराणामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषक्तेर्वा; नाप्यवस्तु, शेषांशानामप्यवस्तुत्वेन वचिदपि वस्तुव्यवस्थाऽनुपपत्तेः । किं तर्हि वस्त्वंश एवासौ तादृक्प्रतीतेबांधकाभावात् ? ततो वस्त्वंशे प्रवर्तमानो नयः स्वार्थेकदेशव्यवसायलक्षणो न प्रमाणं; नापि मिथ्याज्ञानमिति ॥ १ ।।