________________
२१७ स्याद्वदमञ्जरीसहिता
श्लोक-२८ “स्वाभिप्रेताद् अंशाद् इतरांशापलापी पुनर्नयाभासः॥२॥
स व्याससमासाभ्यां द्विप्रकारः॥३॥
व्यासतोऽनेकविकल्पः॥४॥ समासतस्तु विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ५॥" १ नयसामान्यलक्षणमुक्त्वा नयाभासस्य तद्दर्शयितुमाहुः
स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः॥२॥ पुनःशब्दो नयात् व्यतिरेकं द्योतयति । नयाभासो नयप्रतिबिम्बात्मा दुर्नय इत्यर्थः यथा तीथिकानां नित्यानित्याद्यकान्तप्रदर्शकं सकलं वाक्यमिति ॥ २ ॥
नयप्रकारसूचनायाहुः--
स व्याससमासाभ्यां द्विप्रकारः ॥ ३ ॥ स प्रकृतो नयः व्यासो विस्तरः समासः संक्षेपस्ताभ्यां द्विभेदः; व्यासनयः समासनयश्चेति ॥ ३ ॥ व्यासनयप्रकारान् प्रकाशयन्ति
व्यासतोऽनेकविकल्पः ॥४॥
एकांशगोचरस्य हि प्रतिपत्त्रभिप्रायविशेषस्य नयस्वरूपत्वमुक्तं, ततश्चानन्तांशामके वस्तुन्येकैकांशपर्यवसायिनो यावन्तः प्रतिपत्तूणामभिप्रायास्तावन्तो नयाः, ते च नियतसंख्यया संख्यातुं न शक्यन्त इति व्यासतो नयस्यानेकप्रकारत्वमुक्तम् ॥४॥ - समासंनयं भेदतो दर्शयन्ति
समासतस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ।। ५॥
नय इत्मनुवर्तते । द्रवति द्रोष्यति अदुद्रुवत् तांस्ता पर्यायानिति द्रव्यं तदेवार्थः, सोऽस्ति यस्य विषयत्वेन स द्रव्यार्थिकः। पर्येत्युत्पादविनाशी प्राप्नोतीति पर्यायः स एवार्थः, सोऽस्ति यस्यासौ पर्यायार्थिकः । एतावेव च द्रव्यास्तिकपर्यायास्तिकाविति, द्रव्यस्थितपर्यायस्थिताविति, द्रव्यार्थपर्यायाविति च प्रोच्यते । ननु गुणविषयस्तृतीयो गुणार्थिकोऽपि किमिति नोक्त इति चेत्, गुणस्य पर्याय एवान्तभूतत्वेन पर्यायार्थिकेनैव तत्संग्रहात् । पर्यायो. हि द्विविधः-क्रमभावी सहभावी च। तत्र सहभावी गुण इत्यभिधीयते । पर्यायशब्देन तु पर्यायसामान्यस्य स्वव्याक्तिव्यापिनोऽभिधानान्न दोषः। ननु द्रव्यपर्यायव्यतिरिक्तौ सामान्यविशेषौ विद्यते ततस्तद्गोचरमपरमपि नयद्वयं प्राप्नोतीति चेत् । नैतदनुपद्रवम् । द्रव्यपर्यायाभ्यां व्यतिरिक्तयोः सामान्यविशेषयोरप्रसिद्धेः । तथाहि, द्विप्रकारं सामान्यमुक्तम्-ऊर्द्धतासामान्यं तिर्यक्सामान्यं च । तत्रोद्धतासामान्यं द्रव्यमेव । तिर्यक्सामान्यं तु प्रतिव्यक्तिसदृशपरिणामलक्षणं व्यञ्जनपर्याय एव । स्थूलाः कालान्तरस्थायिनः शब्दानां सङ्केतविषया व्यञ्जनपर्याया इति प्रावचनिकप्रसिद्धः। विशेषोऽपि बैसदृश्यविवर्तलक्षणः पर्याय एवान्तर्भवतीति नैताभ्यामाधकनयावकाशः ॥ ५ ॥
२८