SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ लोक २८ अन्ययोगव्यवच्छेदिका २१८ आयो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥६॥ धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः ॥७॥ सत् चैतन्यमात्मनीति धर्मयोः ।।८। वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥ १० ॥द्रव्यार्थिकभेदानाहुः आद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥ ६॥ आद्यो द्रव्यार्थिकः ॥ ६ ॥ तत्र नैगमं प्ररूपयन्ति धर्मयोधर्मिणोधर्मर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो, नैगमः ।।७।। पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया द्विवक्षणं स एवरूपो नके गमा बोधमार्गा यस्यासौ नैगमो नाम नयो ज्ञेयः ॥ ७ ॥ . अथास्योदाहरणाय सूत्रत्रयीमाहुः सच्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥ प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् । विशेष्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन । तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ॥ ८॥ वस्तु पयर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ अत्र हि पर्यायवद् द्रव्यं वस्तु वर्त्तत इति विवक्षायां पर्यायवद् द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा । कि वस्तु पर्यायवद् द्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम् , पर्यायवद् द्रव्यस्य • तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ।। १० ।। ___अत्र हि विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात् सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्मधालम्बनोऽयं नैगमस्य तृतीयो भेदः । न चास्यैवं प्रमाणात्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञतेरसंभवात् तयोरेन्यतर एव हि नैगमनयेन प्रधानतयानुभूयते । प्राधान्यन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान्यत् ॥ १० ॥
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy