SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २१९ स्याद्वादमञ्जरीसहिता श्लोक २८ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ॥ ११ ॥ यथा आत्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः॥१२॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३ ॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अशेषविशेषेषु औदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ॥१५॥ विश्वमेकं सदविशेषादिति यथा ॥ १६ ॥ अथ नैगमाभासमाहुःधर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ॥ ११ ॥ आदिशब्दाधर्मिद्वयधर्मिद्वययोः परिग्रहः । ऐकान्तिकपार्थक्याभिसन्धिरैकान्तिक भेदाभिप्रायो नैगमाभासो नैगमदुर्नय इत्यर्थः ॥ ११ ॥ अत्रोदाहरन्तियथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः॥ १२॥ आदिशब्दाद्वस्त्वाख्यपर्यायवद्रव्याख्ययोधर्मिणोः सुखजीवलक्षणयोर्धर्मधर्मिणोश्च सर्वथा पार्थक्येन कथनं तदाभासत्वेन द्रष्टव्यम्। नैयायिकवैशेषिकदर्शनं चैतदाभासतया शेयम् ॥ १२॥ अथ संग्रहस्वरूपमुपवर्णयन्ति- . . सामान्यमात्रग्राही परामर्शः संग्रहः ॥ १३॥ सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः, समेकीभावेन पिण्डीभूततया विशेषराशिं गृह्णातीति संग्रहः। अयमर्थः स्वजातेदृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स संग्रह इति ॥ १३ ॥ अमुं भेदतो दर्शयन्ति __ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ तत्र परसंग्रहमाहुः- . अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ॥१५॥ परामर्श इत्यग्रेतनेऽपि योजनीयम् ॥ १५ ॥ उदाहरन्ति विश्वमेकं सदविशेषादिति यथा ॥१६॥ अस्मिन् उक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषाथांनां संगृह्यते॥१६॥
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy