SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२. सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभासः॥१७॥ यथा सत्तैव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥१८॥ द्रव्यत्वादीनि अवान्तरसामान्यान मन्वानस्तद्भदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९ ॥ .. धर्मा-धर्मा-काश-काल-पुद्गल-जीव--द्रव्याणामैक्यं द्रव्यत्वाभेदात् इत्यादियेथा ॥ २० ॥ एतदाभासमाहुः-- सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ॥ १७ ॥ अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः संग्रहाख्यां लभते, न चायं तथेति तदाभासः ॥ १७ ॥ उदाहरन्तियथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८ ॥ अद्वैतवादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् । अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ॥ १८ ॥ अथापरसंग्रहमाहुःद्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ।। १९ ।। द्रव्यत्वमादियैषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्याः यादिषु गजनिमीलिकामुपेक्षाम् ।। १९॥ . उदाहरन्तिधर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥२०॥ ___ अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाच्चेतनाचेतनपर्यायाणां सर्वेषामेकत्वम् ; पर्यायत्वाविशेषादित्यादि दृश्यम् ।। २० ॥ १ (१११ ) पृष्ठे द्रष्टव्या.
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy