SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २२१ . स्याद्वादमजरीसहिता श्लोक २८ तेद्रव्यत्वादिकं प्रतिजानानस्तविशेषानिह्नवानस्तदाभासः ॥२१॥ यथा द्रव्यत्वमेव तत्त्वम् । ततोऽान्तरभूतानां द्रव्याणामनुपलब्धोरत्यादि ॥ २२॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः॥ २३ ॥ यथा यत् सत् तद् द्रव्यं पर्यायो वेत्यादिः ॥ २४ ॥ एतदाभासमाहुःद्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिह्नवानस्तदाभासः ॥२१॥ तदाभासोऽपरसंग्रहाभासः ॥ २१ ॥ उदाहरन्ति__ यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्या- णामनुपलब्धेरित्यादिः ॥२२॥ अयं हि द्रव्यत्वस्यैष तात्त्विकतां प्रख्यापयति, तद्विशेषभूतानि तु धर्मादिद्रव्याण्यपह्नत इत्यपरसंग्रहाभासनिदर्शनम्। सर्वत्र संग्रहाभासत्वे कारणं प्रमाणविरोध एवं, सामान्यविशेषात्मनो वस्तुनस्तेन प्रतीतेरभिहितत्वात् ॥ २२ ॥ अथ व्यवहारनयं व्याहरन्ति संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं .. येनाभिसन्धिना क्रियते स व्यवहारः ।। २३॥ संग्रहगृहीतान् सत्त्वाद्यर्थान् विधाय न तु निषिध्य यः परामर्शविशेषस्तानेव विभजते, स व्यवहारनयस्तज्ज्ञैः कीर्त्यते ॥ २३ ॥ उदाहरन्तियथा यत्सत्तद् द्रव्यं पर्यायो वेत्यादिः ।। २४ ॥ आदिशब्दादपरसंग्रहगृहीतार्थगोचरव्यवहारोदाहरणं दृश्यम् । यद् द्रव्यं तज्जीवादि षडिधं, यः पर्यायः स द्विविधः-क्रमभावी सहभावी चेति । एवं यो जीवः स मुक्तः संसारी च, यः क्रमभावी पर्यायः स क्रियारूपोऽक्रियारूपश्चेत्यादि ॥ २४ ॥ १ 'सत्' इति क. पुस्तके पाठः । २ 'प्रतिपद्यमानः' इति क. पुस्तके पाठः।
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy