SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२२ यः पुनरपारमार्थिकद्रव्य--पर्यायविभागमभिप्रैति स __ व्यवहाराभासः ॥ २५॥ यथा चावोकदर्शनम् ॥ २६ ॥ पर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः शब्दः समभिरूढः एवंभूतश्च ॥२७॥ ऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ॥२८॥ यथा सुखविवर्तः सम्पति अस्तीत्यादिः ॥२९॥ . एतदाभासं वर्णयन्तियः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ॥ २५ ॥ यः पुनः परामर्शविशेषः कल्पनारोपितद्रव्यपर्यायप्रविवेकं मन्यते सोऽत्र व्यवहारदुर्नयः प्रत्येयः ॥ २५ ॥ | उदाहरन्ति यथा चार्वाकदर्शनम् ॥ २६॥ . चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापह्नते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इत्यस्य दर्शनं व्यवहारनयाभासतयोपदर्शितम् ॥ २६ ॥ द्रव्यार्थिकं त्रेधाभिधाय पोयार्थिकं प्रपञ्चयन्तिपर्यायार्थिकश्चतुर्धा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ।। २७ ।। एषु ऋजुसूत्रं तावद्वितन्वन्तिऋजु वर्तमानक्षणस्थायि पर्यायमानं प्राधान्यतः सूत्र यन्नभिप्राय ऋजुसूत्रः ॥ २८ ।। ऋजु अतीतानागतकालक्षणलक्षणकौटिल्यवैकल्यात् प्राञ्जलम् । अयं हि द्रव्यं सदपि गुणीभावान्नार्पयति, पर्यायांस्तु क्षणध्वंसिनः प्रधानतया दर्शयतीति ।। २८ ॥ उदाहरन्ति___ यथा सुखविवर्त्तः सम्प्रत्यस्तीत्यादिः ॥ २९॥ .. अनेन हि वाक्येन क्षणस्थायिसुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्म्यते । आदिशब्दाद् दुःखपर्यायोऽधुनाऽस्तीत्यादिकं प्रकृतनयनिदर्शनमभ्यूहनीयम् ॥ २९ ॥
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy