________________
२२३
स्याद्वादमञ्जरीसहितां
सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ तथागतमेतम् ॥ ३१ ॥
कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥ ३२ ॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ॥ ३३ ॥ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४ ॥
ऋजुसूत्राभासं ब्रुवते —
सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राभासः ॥ ३० ॥ उदाहरन्ति -
यथा तथागतमतम् ॥ ३१ ॥
तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं तु प्रत्यभिज्ञादिप्रमाणप्रसिद्धं त्रिकालस्थायि द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ -
शब्दनयं शब्दयन्ति -
कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥ ३२ ॥ कालादिभेदेन कालकारकलिङ्ग संख्या पुरुषोपसर्गभेदेन ॥ ३२ ॥ उदाहरन्ति
२८
यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ।। ३३ । 'अत्रातीतवर्त्तमानभविष्यल्लक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रति
पद्यते । द्रव्यरूपतया पुनरभेदममुष्योपेक्षते । एतच्च कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठत इत्युपसर्गभेदे, ॥ ३३॥
एतदाभासं ब्रुवते -
तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४ ॥
तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव । तदाभासः शब्दाभासः ॥ ३४ ॥
(
१ तदाभास' इति क. ह. पुस्तकयोः पाठः ।