SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्लोक २८ अन्ययोगव्यवच्छेदिका २२४ यथा बभूव भवति भविष्यात सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेव अर्थमाभदधाति भिन्नकालशब्दत्वात् तादृसिद्धान्यशब्द. वद् इत्यादिः ॥३५॥ पर्यायशब्देषु निरुक्तभेदेन भिन्नमर्थ समाभिरोहन् समभिरूढः॥३६॥ इन्दनाद् इन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥३८॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करि-कुरङ्ग-तुरङ्गशब्दवद् इत्यादिः ॥३९॥ उदाहरन्तियथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः . शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक् सिद्धान्यशब्दवदित्यादिः ॥ ३५ ॥ अनेन हि तथाविधपरामर्शोत्थेन वचनेन कालादिभेदाद्भिन्नस्यैवार्थस्याभिधायकत्वं शब्दानां व्यञ्जितम् । एतच्च प्रमाणविरुद्धमिति तद्वचनस्य शब्दनयाभासत्वम् । आदिशब्देन करोति क्रियते कट इत्यादिशब्दनयाभासोदाहरणं सूचितम् ॥ ३५ ॥ समभिरूढनयं वर्णयन्तिपर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन समभिरूढः ।। ३६ ।। शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रैति, समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति ।। ३६ ॥ उदाहरन्तिइन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ।। ३७ ।। इत्यादिषु पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमथ समभिरोहन्नभिप्रायविशेषः समभिरूटस्तथान्येष्वपि घटकुटकुम्भादिषु द्रष्टव्यः ॥ ३७ ।। एतदाभासमाभाषन्तेपर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।। ३८ ।। तदाभासः समभिरूढाभासः ॥ ३८ ॥ उदाहरान्तयथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥ ३९ ॥
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy