________________
परिशिष्टम् १
पूर्वपक्षाः अथाधुना तीर्थान्तरीयमतानि स्याद्वादमञ्जर्यां येन क्रमेण खण्डि तानि तत्क्रमानुसारं तानि प्रदर्श्यन्ते । यतः तत्प्रदर्शनमन्तरा खण्डनं न बुद्धिपथमारोहेद्यथायथम्-तत्र प्रथममौलूक्यमतं वैशेषिकापरपर्यायमङ्गीकृतम् । तत्र चतुर्थश्लोके- . __सामान्यविशषयोः खण्डनं तदर्थ सामान्यविशेषयोः स्वरूपं वैशेषिकसूत्रभाष्यानुसारं दर्शयामः
वैशेषिकसूत्रभाष्ये सामान्यनिरूपणम् ।
(पृ. ४) 'सामान्यं द्विविधं परमपरं चानुवृत्तिप्रत्ययकारणम्। तत्र परं सत्ता महाविषयत्वात् सा चानुवृत्तरेव हेतुत्वात्सामान्यमेव । द्रव्यत्वाद्यपरमल्पविषयत्वात् तच्च व्यावृत्तेरपि हेतुत्वात्सामान्यं सद्विशेषाल्यामपि लभते ॥ .. (पृ. १६४) 'सामान्यं द्विविधं परमपरं च स्वविषयसर्वगतमभिः मात्मकमनेकवृत्ति । एकद्विबहुष्वात्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्ययकारणम् । कथम् ? प्रतिपिण्डं सामान्यापेक्षं प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणात् यदनुगतमस्ति तत्सामान्यमिति' ॥ - वैशेषिकसूत्रभाष्ये-विशेषनिरूपणम्।
(पृ. ४) 'नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एव ॥'
(पृ. १६८) 'अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः । विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथाऽस्मदादीनां गवादिध्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा गौः शुक्लः शीघ्रगतिः पीनककुद्मान महाघण्ट इति । तथाऽस्मद्विशिष्टानां