________________
एवंरीत्या संमुय विदुषां पुरतो निधीयते पुस्तकमेतत् शासनदेवकूपया। संप्रार्थ्यन्ते च सुधियो यदालोच्य सर्व त्रुटयो ज्ञाप्यास्तैर्येन संस्करणान्तरे प्रयतिष्ये तज्ज्ञापनानुसारम् ।
प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकं तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाटकोपनामश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात्साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थबोधकटिप्पनीयुतं प्रास्ताविकं सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्यतेति निर्दिशनहमल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किं च 'ओसवालवणिग्वंशज श्रेष्ठि शान्तिलाल भगवानजी ' ( कार्याधिपो जैन प्रिंटिंग वर्क्स ) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यमानान् दोषान्विज्ञाप्यानुप्राह्योऽयं जन इति संप्रार्थकः। । पुण्यपत्तनम्
विद्वद्वशवंदः आश्विनाष्टाह्निकम् वीरसंवत् २४५२. . मोतीलाल लाधाजी