________________
३ प्रकाशनपरिचयः। आहेतमतप्रभाकरपरिचयद्वारा यथा प्रतिश्रुतं तदनुसारमेतस्याः स्याद्वादमञ्जयोः प्रकाशनं यावच्छक्ति कृतम् । तथाच-अत्र प्रथममन्ययोगव्यवच्छेदिकाया अन्तरङ्गबहिरङ्गपरीक्षणं प्राकाशि ।
__ अथ च स्याद्वादमञ्जयां पूर्वपक्षत्वेन गृहीतानि न्यायादिमतानि सविस्तरं ग्रन्थनामनिर्देशपुरःसरं परिशिष्टे दर्शितानि । तथाधोभागेऽर्थदशिकाः, तत्तन्न्याय-विवरणात्मिकाः, ग्रन्थस्थलनिर्देशात्मिकाश्च टिप्पन्यो मुद्रिता येन ग्रन्थार्थजिज्ञासूनां विशेषतः सौकर्यं स्यात् । तथा टिप्पन्यां स्याद्वादमञ्जरीगृहीतानामाचाराङ्गादिग्रन्थानां पारिभाषिकशब्दानां च परिचयो दर्शितः। किं च पठितृसौकर्यार्थं स्याद्वादमञ्जर्यामुद्धतानि ग्रन्थान्तरगतवाक्यानि ग्रन्थग्रन्थकृन्नामानि च स्थूलाक्षरैर्मुद्रितानि । अत्र नव परिशिष्टानि सन्ति । तथाहि१ पूर्वपक्षाः ( विशेषतः श्रीमाल्लषेणभूरिनिर्दिष्टग्रन्थस्थाः) २ उपलब्धवाक्यानि । . ) ग्रन्थमुद्रणसमाप्तिपर्यन्तं यान्युपलब्धानि ३ अनुपलब्धवाक्यानि । तान्यपि उपलब्धोपलब्धसमपरिशिष्टयोर्द४. उपलब्धसमानि। र्शितानि । ५ स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थाः । ६ स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थकृतः । ७ स्याद्वादमञ्जरीनिर्दिष्टा न्यायाः । ८ टिप्पन्यां पूर्वपक्षप्रदर्शने चोपयोजिता ग्रन्थाः । ९ मुद्रणार्थमुपयोजितानि पुस्तकानि ।
बौद्धग्रन्था यत्र लब्धास्तत्र तन्निर्देशः कृतः । तथापि मतान्तरापेक्षया बौद्धग्रन्था दुर्लभा इत्यस्माभिरनुभूतम् । मागधीभाषाविषये सर्वत्र संस्कृतछाया निर्दिष्टा । विशेषस्थले टीकादिकमपि यथायथं प्रादर्शि । एतन्मुद्रणेऽस्माभिः अष्ट पुस्तकानि संगृहीतानि यद्विषयको निर्देशो नवमपरिशिष्टे । तत्र 'अ' पुस्तकस्थः पाठो मुद्रणार्थमाहतः । यतस्तदेव पुस्तकमतीव प्राचीनं शुद्धं च । पुस्तकान्तरात् शुद्धा अर्थवैशिष्टयबोधका एव पाठाः संगृ. होता न सर्वे ।