________________
(४) शिष्याः ७ कलिकालगौतमविरुदधारकश्रीहरिभद्रसूरयः । तच्छिष्याः ८ श्रीविजयसेनसूरयः। तच्छिष्यत्रयम ९ (१) श्रीउदयसेनसूरयः (२) श्रीउदयप्रभसूरयः। (३) श्रीयशोदेवसूरयः। तत्र श्रीउदयप्रभसूरिशिष्याः १०श्रीमल्लिषेणमूरयः । जिनप्रभमूरिभिस्तु तर्थिकल्पाजितशान्तिस्तववृत्त्यादयो ग्रन्थाः प्रणीताः । एतर्जिनप्रभसूरिभिः स्वसमयः आजतशान्तिस्तववृत्तौ स्वयमेव दार्शतः । तथाच
संवद्विक्रमभूपतेः शरऋतूदर्चिः शशांकर्मिते ( वै. १३६५ शा. श. १२३० ) __पौषस्यासितपक्षभाजि शनिना युक्ते द्वितीयातिथौ। . श्रीमान् श्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पन्धयः ___ पुर्यां दाशरथर्जिनप्रभगुरुर्जग्रन्थ टीकामिमाम् ॥ १ ॥
अनेन समयनिर्देशेन सुधीभिः स्पष्टमेव प्रतीयेत श्रीमल्लिषेणजिनप्रभयोः समानकालिकत्वम् । प्रशस्तिकायां श्रीमाल्लषेणसरिभिः शाकवत्सरस्य निर्देशः कृतस्तेनैतत्प्रतीयते यदेते सूरयो ग्रन्थसमाप्तिसमये नर्मदाधः प्रदेशे कुत्रापि न्यवसन्निति यतः शालिवाहनशकस्य नर्मदाया दक्षिणप्रदेश एव लेखप्रचारः । नर्मदोत्तरभागे वैक्रमसंवत्सरस्य लेखप्रचार इति । इयं व्याख्या सहस्रत्रयग्रंथसंख्यापरिमिता । श्रीमल्लिषेणमूरिभिः परमतं खण्डनार्थं यदा यदोघृतं तदा तदा तत्तन्मतस्थानां प्राचीनपण्डितानां ग्रन्थनिर्देशः कृतः । तथापि बहुषु स्थलेषु विस्तरभयात्केवलमेतदमुकग्रन्थेषु द्रष्टव्यमिति ग्रन्थानां नामनिर्देशः कृतः । ते च ग्रन्था अस्माभिः परिशिष्टे दर्शिताः।
श्रीमल्लिषेणसूरीणां वश्यवाक्त्वं विशेषतः प्रशस्यं यतस्तत्र तत्र व्याख्यायां तैः स्वविषयः सारल्यतया बहुभिदृष्टान्तैः सर्वजनावर्जकैलौकिकैायैश्च प्रतिपादितः । किं चार्थजिज्ञासूनां सौकर्याय प्रतिश्लोकं संक्षिप्तार्थो विस्तरार्थश्च प्रतिपादितः । यदा पूर्वग्रन्थानामुपयोगस्तैरभिलषितस्तदा प्रायस्तैरेवाक्षरैस्तत्संग्रहः कृतः । यथा पृ. २० पंक्ति ५ मीमारभ्य श्रीहेमचन्द्राचार्यकृतायाः प्रमाणमीमांसाया (१-१-३३) निर्देशः ।