________________
योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च अन्यनिमित्तासम्भवात् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः । देशकालविप्रकर्षे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषाः॥'
तत्र पञ्चमश्लोके सामान्यस्यैकान्तनित्यत्वम् । ....
वैशेषिकसूत्रभाष्ये(पृ. १६६) 'लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वं सिद्धम्। अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वम् । प्रत्येकं स्वाश्रयेषु लक्षणाविशेषाद्विशेषलक्षणाभावाच्चैकत्वम । यद्यप्यपरिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात् . कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति।।' . ___ तत्रैव स्याद्वादमञ्जर्यां तमसश्चाक्षुषत्वमुक्तं तद्विषये वैशेषिकमतम्। वैशेषिकसूत्रोपस्कारे
(पृ. १४१ ) 'ननु तमसोऽपि द्रव्यस्य कर्म दृश्यते चलति छायेतिप्रत्ययात, तत्र न प्रयत्नो न वा नोदनाभिघातौ न वा गुरुत्वद्रवत्वे न वा संस्कारस्तथा च निमित्तान्तरं वक्तव्यं तच्च नानुभूयमानमित्यत आह
द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः ॥ ५-२-१९।। - एतेन नवैव द्रव्याणीत्यवधारणमप्युपपादितम् । द्रव्यनिष्पत्तिस्तावत् स्पर्शवद्व्याधीना । न च तमसि स्पर्शोऽनुभूयते । न चानुद्भूत एव स्पर्शः, रूपोद्भवे स्पर्शोद्भवस्यावश्यकत्वात् । पृथिव्यामयं नियमः । तमस्तु दशमं द्रव्यमिति चेन्न द्रव्यान्तरस्य नीलरूपानधिकरणत्वात् । नीलरूपस्य च गुरुत्वनान्तरीयकत्वात्, रसगन्धनान्तरीयकत्वाच्च । यथाकाशं शब्दमात्रविशेषगुणं तथा तमोऽपि नीलरूपमात्रविशेषगुणं स्यादिति चेन्न चाक्षुषत्वविरोधात् । यदि हि नीलरूपवन्नीलं रूपमेव वा तमः स्यात् बाह्यालोकप्रग्रहमन्तरेण चक्षुषा न गृह्येत ॥१९॥'
: तत्रैव स्याद्वादमञ्जर्यां-व्योमापि नित्यानित्यमेव। तदर्थं व्योमस्वरूपं वैशेषिकगृहीतं प्रदर्श्यते