________________
वैशेषिकसत्रोपस्कारे।
(पृ. ६६ ) यदर्थमयं परिशेषस्तदाहपरिशेषाल्लिङ्गमाकाशस्य ॥ २-१-२७ ।।
शब्द इति शेषः । अत्रापि शब्दः क्वचिदाश्रितो गुणत्वाद्रूपादिवदिति सामान्यतो दृष्टादष्टद्रव्यातिरिक्तद्रव्यसिद्धिः । गुणश्चायं बायैकेन्द्रियग्राह्यजातीयत्वात् रूपादिवत् । अनित्यत्वे सति विभुसमवेतत्वात् ज्ञानादिवत् । अनित्यत्वं च साधयिष्यते ( अग्रिमसूत्रे) । परिशेषसिद्धस्य द्रव्यस्यावयवकल्पनायां प्रमाणाभावान्नित्यत्वं सर्वत्र शब्दोपलब्धेर्विभुत्वम् ।। २७ ॥
शब्दलिङ्गस्य द्रव्यस्य द्रव्यत्वनित्यत्वे अतिदेशेन साधयन्नाहद्रव्यत्वनित्यत्वे वायुना व्याख्याते ।। २-१-२८॥
अद्रव्यवत्त्वाद्यथा वायोर्नित्यत्वं तथाकाशस्यापि, गुणवत्त्वात् । यथा वायोर्द्रव्यत्वं तथाकाशस्यापीत्यर्थः ॥ २८ ॥
तत् किं बहून्याकाशानि एकमेव वेत्यत आहतत्त्वम्भावेन ।। २-१-२९॥
व्याख्यातमिति विपरीतेनान्वयः । भावः सत्ता सा यथैका तथाकारामप्येकमेवेत्यर्थः ॥ २९॥
नन्वनुगतप्रत्ययमहिम्ना सत्ताया एकत्वं सिद्धम् । आकाशे कथमेकत्वं तद्दष्टान्तेन सेत्स्यतीत्यत आह.----
शब्दलिङ्गविशेषाद्विशेषलिङ्गाभावाच्च ।। २-१-३० ॥ - तत्त्वमाकाशस्य सिद्धमित्यर्थः । वैभवे सति सर्वेषां शब्दानां तदेकाश्रयतयैवोपपत्तावाश्रयान्तरकल्पनायां कल्पनागौरवप्रसङ्गः । अन्यदपि यदाकाशं कल्पनीयम् । तत्रापि शब्द एव लिङ्गम् । तच्चाविशिष्टम न च विशेषसाधकं भेदसाधकं लिङ्गान्तरमस्ति । आत्मनां यद्यपि ज्ञानादिकमविशिष्टमेव लिङ्गं तथापि व्यवस्थातो लिङ्गान्तरादात्मनानात्वसिद्धिरिति वक्ष्यते (३-२-१९) ॥ ३० ॥
नान्वाकाशस्य एकत्वं तावदस्तु, वैभवात्परममहत्त्वमप्यस्तु, शब्दासमवायिकारणत्वात् संयोगविभागावपि स्याताम् एकपृथक्त्वं कथमत आह ---