________________
(१०) तदनुविधानादेकपृथक्त्वं चेति ॥ २-१-३१ ॥
नियमेनैकपृथक्त्वमेकत्वमनुविधत्ते इत्येकपृथक्त्वसिद्धिः । इतिराहिकपरिसमाप्तौ मानसप्रत्यक्षाविषयविशेषगुणवद्रव्यलक्षणमाह्निकार्थः। तेन पृथिव्यप्तेजोवाय्वाकाशानां प्रसङ्गत ईश्वरात्मनश्च लक्षणमस्मिन्नाह्निके । तेन चतुर्दशगुणवती पृथिवी, ते च गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्काराः । तावन्त एव गन्धमपास्य स्नेहेन सहापाम् । एत एव रसगन्धस्नेहगुरुत्वान्यपास्य तेजसः । गन्धरसरूपगुरुत्वस्नेहद्रवत्वान्यपास्य वायोः । शब्देन सह सङ्ख्यादिपञ्चगुणवत्त्वमाकाशस्य । सङ्ख्यादिपञ्चकमात्रं दिकालयोः। परत्वापरत्ववेगसहितं सङ्ख्यादिपञ्चकं मनसः। सङ्ख्यादिपञ्चकं ज्ञानेच्छाप्रयत्नाश्वेश्वरस्य ॥ ३१ ॥
तत्रैव स्याद्वादमञ्जर्यां (पृ. १८) 'स्वायंभुवा अपि हि' इत्यनेन पातञ्जलमतखण्डनं तदर्थं तद्विषयकस्य पातञ्जलमतस्य निर्देशः ।
पातञ्जलयोगसूत्रभाष्ये
(पृ. १२६) एतेन भूतेन्द्रियेषु र्धमलक्षणावस्थापरिणामा व्याख्याताः॥ ३-.१३॥
. 'एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोर्धमयोरभिभवप्रादुर्भावौ धर्भिणि धर्मपरिणामः । लक्षणपरिणामश्च निरोधस्त्रिलक्षणनिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः । यत्रास्य स्वरूपेणाभिव्याक्तिः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । ____ तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम् । एषोऽस्म द्वितीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् । एवं पुनर्युत्थानमुपसम्पद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्ती सत्यां ब्यापारः । एषोऽस्य द्वितीयोऽध्वा। न चाती.