________________
- स्याद्वादमञ्जरीसहिता
श्लोक ३२ "अदेवे देवबुद्भिर्या गुरुधीरगुरौ च या अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात्" ॥१॥
ततोऽयमर्थः-यथा किल ऐन्द्रजालिकास्तथाविधसुशिक्षितपरव्यामोहनकलाप्रपञ्चाः तथाविधमौषधीमन्त्रहस्तलाघवादिप्रायं किश्चित्प्रयुज्य परिषजनं मायामये तमास मजयन्ति, तथा परतीर्थिकैरपि तादृप्रकारदुरधीतकुतर्कयुक्तीरुपदिश्य जगदिदं व्यामोहमहान्धकारे निक्षिप्तमिति । तज्जगदुद्धर्तुं मोहमहान्धकारोपप्लवात् क्रष्टुम्, नियतं निश्चितम् , त्वमेव, नान्यः शक्तः समर्थः । किमर्थमित्येमेकस्यैव भगवतः सामर्थ्यमुपवर्ण्यते, इति विशेषणद्वारेण कारणमाहअविसंवादिवचनः । कष-च्छेद-तापलक्षणपरीक्षात्रयविशुद्धत्वेन फलप्राप्तौ न विसंवदतीत्येवंशीलमविसंवादि, तथाभूतं वचनमुपदेशो यस्यासावविसंवादिवचनः अव्यभिचारिवागित्यर्थः । यथा च पारमेश्वरी वाग् न विसंवादमासादयति यथा तत्र तत्र स्याद्वादसाधने दर्शितम् । कषादिस्वरूपं चेत्थमाचक्षते प्रावचनिकाः
" पाणबहाईआणं पावटाणाण जो उ पडिसेहो । झाणज्झयणाईणं जो य विहहिास धम्मकसो ॥१॥ बज्झाणुठाणेणं जेण ण वाहिज्जए तयं णियमा । संभवइ य परिशुद्धं सो पुण धम्मम्हि छेउत्ति ॥२॥
१ 'उपदी' इति ह.पुस्तके पाठः। २ हरीभद्रसूरिकृतपञ्चवस्तुकचतुर्थद्वारे प्राणवधादीनां पापस्थानानां यस्तु प्रतिषेधः । ध्याना-ध्ययनादीनां यश्च विधिरेष धर्मकषः ॥ १॥ बाह्यानुष्ठानेन येन न बाध्यते तन्नियमात् । संभवति च परिशुद्धः स पुनर्धमें छेद इति ॥ २ ॥ ‘जीनादिभाववादो बन्धादिप्रसाधक इह तापः । .. एतैः परिशुद्धो धर्मो धर्मत्वमुपैति ॥ ३॥ इति छाया ।