________________
श्लोक ३१
अन्ययोगव्यवच्छेदिका
एवं विप्रतारकैः परतीर्थिकैर्व्यामोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणेऽव्यभिचारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्यं दर्शयन् तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति
२४०
इदं तत्त्वातत्त्वव्यतिकर कर लेऽन्धतमसे जगन्मायाकारैरिव हतपरैर्हा विनिहितम् । तदुद्धर्तुं शक्तो नियतम विसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥ इदं प्रत्यक्षोपलभ्यमानं जगद् विश्वम् — उपचाराद जगद्वती जनः । हतपरै: - हता अधमा ये परे तीर्थान्तरीया हतपरे, तैर्मायाकारैरिव ऐन्द्रजालिकैरिव - शाम्बरीयप्रयोगनिपुणैरिव इति यावत् । अन्धतमसे निविडान्धकारे, हा इति खेदे विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः । अन्धं करोतीत्यन्धयति, अन्धयतीत्यन्धं तच्च तत्तमश्चेत्यन्धतमसम् "समवान्धात् तमस" इत्यत्प्रत्ययः. तस्मिन् अन्धतमसे । कथंभूतेऽन्धतमसे इति द्रव्यान्धकारव्यवच्छेदार्थमाह-- तत्त्वातत्त्वव्यतिकरकराले । तत्त्वं चातत्त्वं च तत्त्वातत्त्वं तयोर्व्यतिकरो व्यतिकीर्णता व्यामिश्रता स्वभावविनिमयस्तत्त्वातत्त्वव्यतिकरस्तेन कराले भयङ्करे । यत्रान्धतमसे तत्त्वेतत्त्वाभिनिवेश: । अतत्त्वे च तत्त्वाभिनिवेश इत्येवंरूपो व्यतिकरः संजायत इत्यर्थः । अनेन च विशेषणेन परमार्थतो मिथ्यात्वमोहनीयमेव अन्धतमसम्, तस्यैव ईक्षलक्षणत्वात् । तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः
१ हैमसूत्रम् ७|३|८०
२ हेमचन्द्रकृतयोगशास्त्रे द्वितीयप्रकाशे तृतीयः श्लोकः।